________________
[३५] अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥ २-३७॥
ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥२-३८॥ अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः ॥ २-३९ ॥ शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ॥२-४० ॥
किञ्चसत्वशुद्धिसामनस्यैकाग्र्यन्द्रियजयात्मदर्शन
योग्यत्वानि च ॥ २-४१ ॥ सन्तोषादनुत्तमः सुखलाभः ॥ २-४२ ॥ कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः ॥२-४३ ॥ स्वाध्यायादिष्टदेवतासम्प्रयोगः ॥२-४४ ॥ समाधिसिद्धिरीश्वरप्रणिधानात् ॥२-४५॥
उक्ताः सह सिद्धिभिर्यमनियमाः । आसनादीनि पक्ष्यामः । तत्र
स्थिरसुखमासनम् ॥ २-४६ ॥ प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥ २-४७ ॥
ततो द्वन्द्वानभिघातः ॥२-४८ ॥