________________
[३४] (य०)-सर्वशब्दगर्भप्रतिज्ञया महाव्रतानि, देशशब्दगर्भप्रतिज्ञया चाणुव्रतानीति पुनः पारमर्षविवेकः । एकवचनं चात्र सर्वप्रतिज्ञया पञ्चानामपि तुल्यत्वाभिव्यक्त्यर्थम् ॥ शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि
नियमाः ॥ २-३२ ।। भाष्यम्-तत्र शौचं मृजलादिजनितं मेध्याभ्यवहरणादि च बाह्यम् । आभ्यन्तरं चित्तमलानामाक्षालनम् ।
(य०-भावशाचानुपरोध्येव द्रव्यशौचं बाह्यमादेयमिति तत्त्वदर्शिनः ॥ ___ एतेषां यमनियमानाम्
वितर्कबाधने प्रतिपक्षभावनम् ॥ २-३३ ॥ वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम्॥२-३४॥
प्रतिपक्षभावनाद्धेतो:या वितर्का यदा स्युरप्रसवधर्माणस्तदा तत्कृतमैश्वर्य योगिनः सिद्धिसूचकं भवति, तद्यथाअहिलाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥२-३५॥ लत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ २-३६ ।।