________________
[३३] योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीतिरा विवेक
___ ख्यातेः ॥२-२८ ॥ तत्र योगाङ्गान्यवधार्यन्तेयमनियमासनप्राणायामप्रत्याहारधारणाध्यान
समाधयोऽष्टावङ्गानि ॥ २-२९॥ अहिंसातत्यास्त्येयब्रह्मचर्यापरिग्रहा यमाः॥२-३०॥
जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा
महानतम् ॥२-३१॥ भाष्यम्-तत्राहिंसा जात्यवच्छिन्ना मत्स्यवन्धकस्य मत्स्येग्वेव नान्यत्र हिंसा। सैव देशावच्छिन्ना न तीर्थे हनिष्यामीति। सैव कालावच्छिन्ना न चतुर्दश्यां पुण्येऽहनि हनिष्यामीति ! सैव त्रिभिरूपरतस्य समयावच्छिन्ना देवब्राह्मणार्थे हनिष्यामीति । यथा च क्षत्रियाणां युद्ध एव हिंसा नान्यत्रेति । एभिर्जातिदेशकालसमथैरनवच्छिन्ना अहिंसादयः सर्वथैव प्रतिपालनीयाः। सर्वभूमिषु सर्वविपयेषु सर्वथैवाविहितव्यभिचारा सार्वभौमा महाव्रतमित्युच्यन्ते ।।
१ " वाविदित-" इति ।
-