________________
[ ३१ ]
र्धता कारणं भवतीति नासौ पुरुषार्थकृतेति नित्याऽऽख्यायते । त्रयाणां त्ववस्थाविशेषाणामादौ पुरुषार्थता कारणं भवति । संर्वार्थो हेतुर्निमित्तं कारणं भवतीत्यनित्याख्यायते । गुणास्तु सर्वधर्मानुपातिनो न प्रत्यस्तमयन्ते नोपजायन्ते, व्यक्तिभिरेवातीतानागतव्ययागमवतीभिर्गुणान्वयिनीभिरुपजननापायधर्माका इव प्रतिभासन्ते । यथा देवदत्तो दरिद्राति, कस्मात् १ यतोऽस्य त्रियन्ते गाव इति गवामेव मरणात्तस्य दरिद्राणं न स्वरूपहानादिति समः समाधिः । लिङ्गमात्रमलिङ्गस्य प्रत्यासन्नं तत्र तत्संसृष्टं विविच्यते क्रमानतिवृत्तेः । तथा षडविशेषा लिङ्गमात्रे संसृष्टा विविच्यन्ते परिणामक्रमनियमात् । तथा तेष्वविशेषेषु भूतेन्द्रियाणि संसृष्टानि विविच्यन्ते । तथा चोक्तं पुरस्ताद - " न विशेषेभ्यः परं तत्त्वान्तरमस्ति " इति विशेषाणां नास्ति तत्त्वान्तरपरिणामः । तेषां तु धर्मलक्षणावस्थापरिणामा व्याख्यास्यन्ते ॥
(य०) प्रागभावप्रध्वंसाभावानभ्युपगमे सर्वमेतदुक्तमनुपपन्नम् । तदुक्तम कलङ्केन ---" कार्यद्रव्यमनादि स्यात्प्रागभावस्य निह्नरे । प्रध्वंसस्थापलापे तु तदेवानन्ततां व्रजेत् ॥ १ ॥ तदुपगमे तु द्रव्यप्रर्यायोभयरूपत्वाद्वस्तुनः सर्वत्र त्रैलक्षण्येन कथंचिदेषा व्यव
33
स्था युज्येतापीति वयं वदामः ॥
द्रष्टा हशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥ २२० ॥ ९ ' स चार्थो' इत्यपि ।