________________
[३०] प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगा
पवर्गार्थं दृश्यम् ॥ २-१८॥ दृश्यानां तु गुणानां स्वरूपभेदावधारणार्थमिदमारभ्यतेविशेषाविशेषलिङ्गमात्रालिङ्गानि
गुणपर्वाणि ॥२-१९॥ भाष्यम्-तत्राकाशवाय्वग्न्युदकभूमयो भूतानि शब्दस्पशरूपरसगन्धतन्मात्राणामविशेषाणां विशेषाः । तथा श्रोत्रत्वचक्षुर्जिबाघ्राणानि बुद्धीन्द्रियाणि, वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाणि, एकादशं मनः सवोथेमित्येतान्यसितालक्षणस्याविशेषस्य विशेपाः, गुणानामेप पोडशको विशेषपरिणामः । पडविशेपाः, तद्यथा-शब्दतन्मानं स्पर्शतन्मात्रं रूपतन्मानं रसतन्मात्रं गन्धतन्मात्रं चेत्येकद्वित्रिचतुष्पश्चलक्षणाः शब्दादयः पश्चाविशेपाः, पष्ठश्चाविशेपोऽसितामात्र इति । एते सत्तामात्रस्यात्मनो महतः पडविशेषपरिणामाः । यत्तत्परमविशेपेभ्यो लिङ्गमात्रं महत्तत्त्वं तसिन्नेते सत्तामात्रे महत्यात्मन्यवस्थाय विवृद्धिकाष्ठामनुभवन्ति । प्रतिसंसृज्यमानाश्च तस्मिन्नेव सत्तामात्रे महत्यात्मन्यवस्थाय यत्तन्निःसत्तासत्तं निःसदसन्निरसदव्यक्तमलिङ्गं प्रधानं तत्प्रतीयन्तिा एप तेपां लिङ्गमात्रः परिणामो निस्सत्तासत्तं चालिङ्गपरिणाम इति । अलिङ्गावस्थायां न पुरुषार्थों हेतु लिङ्गावस्थायामादौ पुरुषा