________________
[२६] इति । तदस्य महतो दुःखसमुदायस्य प्रभवबीजमविद्या। तस्याश्च सम्यग्दर्शनमभावहेतुः । यथा चिकित्साशास्त्रं चतुर्मूहम् , रोगो रोगहेतुरारोग्यं भैषज्यमिति, एवमिदमपि शास्त्रं चतुर्म्यहमेव । तद्यथा-संसारः संसारहेतुः मोक्षो मोक्षोपाय इति । तत्र दुःखबहुलः संसारो हेयः। प्रधानपुरुपयोः संयोगो हेयहेतुः । संयोगस्यात्यन्तिकी निवृत्तिनिम् । हानोपायः सम्यग्दर्शनम् । तत्र हातुः स्वरूपमुपादेयं हेयं वा न भवितुमहति इति, हाने तस्योच्छेदवादप्रसङ्गः, उपादाने च हेतुवादः, उभयप्रत्याख्याने शाश्वतवाद इत्येतत्सम्यग्दर्शनम् । तदेतच्छाखं चतुर्वृहमित्यभिधीयते ॥
(10)--निश्चयनयमतमेतद्, यदुपजीव्याह स्तुतौ महावादी"भवीजमनन्तमुज्झितं विमलज्ञानमनन्तमर्जितम् । न च हीनकलोऽसि नाधिकः समतां नाप्यतिवृत्त्य वर्तसे ॥ १॥" इति ॥
हेयं दुःखमनागतम् ॥ २-१६ ॥ तस्माद्यदेव हेयमित्युच्यते तस्यैव कारणं प्रतिनिर्दिश्यते
द्रष्ट्रदृश्ययोः संयोगो हेयहेतुः ॥२-१७॥. दृश्यस्वरूपमुच्यते
१ सिद्धसेनदिवाकरः २ चतुर्थद्वात्रिशिका श्लो. २९ ।। ३ 'चाप्यनिवृत्त्व' इति मुद्रिते पाठांतरं ।