________________
[२५] गुरुलघुकर्मणामनेकेषां प्रायणकालोद्बुद्धवृत्तिकानां प्रारब्धतेत्येकत्र जन्मनि जन्मसप्तकभोगाकर्मस्यापत्तिरेव जन्मकृतस्य तादृशकर्मप्रचयस्य प्रायणसप्तकेन "यं यं वापि स्मरन् भाव" (गीता.अ.८.श्लो. ६.)इत्यादि स्मृत्यनुरोधेन प्रायणसप्तककालोत्पादितदेहान्तरविषयान्तिमप्रत्ययो क्रमशो लब्धप्रारब्धताकस्य सप्तजन्मविप्रत्वोपपादकत्वाभ्युपगमे गतमैहिकभाविककर्माशयप्रतिज्ञया, एवमनन्तभवविपाकिताया अपि वक्तं शक्यत्वात् । किञ्च तस्य तज्जन्मभोगप्रदत्वावच्छेदेन प्रारब्धत्वं तदन्यावच्छेदेन च संचितत्वं वाच्यम् , अन्यथा तत्त्वज्ञानिनोऽपि ताशकर्मवतो देहान्तरोत्पत्यापत्तिः, संचितं हि कर्म तत्त्वज्ञाननाश्यं न तु प्रारब्धम् । जन्मान्तरावच्छेदेन च तस्य संचितत्वात्तत्त्वज्ञानेन नाशानोक्तप्रसङ्ग इति । एवं च तज्जन्मभोगप्रदत्वावच्छेदेन तज्जन्मप्रारउधत्वम् , तज्जन्मप्रारब्धत्वावच्छेदेन च तजन्मभोगप्रदत्वमिति व्यक्त एवान्योऽन्याश्रयः। तस्मादायुष्कर्मैव प्रारब्धं तदेव च कर्मान्तरोपगृहीतं तत्तद्भवभागप्रदम् । अत एव जातिनामनिधत्तायुष्कादिभेदोऽपि सिद्धान्तसिद्धः । केवलिनश्वायुरधिककर्मसत्त्वे केवलिसमुद्घातेन तत्समीकरणान्न काऽप्यनुपपत्तिरिति अन्यत्रायुषो नैकभविकत्वनियमः कर्माशयस्य श्रद्धेयः। प्रायणमेव प्राम्भवकृतकर्मप्रचयोद्वोधकमित्यपि दुःशिक्षिताभिधानम् , पुद्गलजीवभवक्षेत्रवि
१ . ० भोग्यकर्मविपाकस्या' इति समीचीनम् । २ ० रेकजन्म' इति शु०।३ गतमिहक-" इति ।