________________
[ २६ ] पाकमेदेन कर्मणां नानाविपाकत्वाद्भवीवपाक्यायुष्प्रकृतिविपाकस्य प्रायणोद्वोध्यत्वेऽपि सर्वत्र तथा वक्तुमशक्यत्वात् । दृश्यते हि निद्रादिविपाकोद्वोधे कालविशेषस्यापि हेतुत्वम्, न च दृष्टेऽनुपपन्नं नाम, स्वानन्तरकर्मविपाकोद्बोधद्वारा प्रायणस्याग्रिमसंतत्युद्धोधकत्वस्वीकारे चातिप्रसङ्गः, नानाभवसंततिद्वारघटनायास्तत्र तत्पूर्व च वक्तुं शक्यत्वात् । प्रधानत्वमपि कर्मण एकायुष्परिग्रहं विना दुवैचम् । न होकन भवे नानागतियोग्यकर्मोपादानेऽन्ते इदमेव फलवदित्यनान्यन्नियामकमस्ति, आयुस्त्वेकत्र भवे एकवारमेव वध्यत इति तदनुसारेणान्ते तादृग्लेश्योपगमात्, “ यल्लेश्यो म्रियते तल्लेश्येपू. त्पद्यते " इति प्राग्भवबद्धमायुस्तादृशलेश्यया विपाकप्राप्तं प्रधानीभवदन्यकर्माण्युपगृह्णातीति सर्व [सं] गच्छते । प्रधानकर्मण्यावापगमनादिकमपि "मूलप्रकृत्याभन्नाः, संक्रमयति गुणत उत्तराः प्रकृतीः। नन्वात्माऽमूर्तत्वादध्यवसायप्रयोगेण ॥” इत्याद्युक्तनीत्या संक्रमविधिपरिज्ञानं विना न कथमप्युपपादयितुं शक्यम् , अन्यथा किं कुत्र संक्रामति' इति विनिगन्तुमशक्यत्वात् । तस्मादनार्थेऽस्मस्कृतकर्मप्रकृतिवृत्तिं सम्यगवलोक्य वीतरागसिद्धान्तानुरोधि कर्माशयस्वरूपं व्याख्येयमिति कृतं विस्तरण || प्रकृतं प्रस्तुम:-- ते हादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥२-१४॥
कथं ? तदुपपाद्यतेपरिणामतापसंस्कारदुःखेगुणवृत्तिविरोधाञ्च