________________
[२४] चित्तज्जन्मनियतविपाकानि, कानिचिन्नानाजन्मनियतविपाकानि, कानिचिदनियतविपाकानि वा। तत्राद्यैर्नामगोत्रवेदनीयः संवलितमायुभवोपग्राहिताव्यपदेशमनुते, यत्रान्ये प्रारब्धसंज्ञां निवेशयन्ति। एकस्मिन्भवे आयुर्द्वयस्य बन्ध उदयश्च प्रतिषिद्ध एवेति न जन्मान्तरसंकरादिप्रसङ्गः । नन्दीश्वरनहुषादीनामप्यायुःसंकराभ्युपगमे जन्मसंकरो दुर्निवारः। प्रायणं विना हि नायुष्कर्मान्तरोद्रोधः। शरीरान्तरपरिणामे प्रायणाभ्युपगमे च वक्तव्यं जन्मान्तरमिति । तस्माद्वैक्रियशरीरलाभसरशोऽयं नैकस्मिन् जन्मन्यायुद्धयमाक्षिपतीत्यलं मिथ्यादृष्टिसंघटेन । तस्मादेकभविकः कर्माशय इति भवोपग्राहिकर्मापेक्षयैव युक्तम्, नान्यथा, कर्मानुभवनिर्मितानां वासनानामनेकजन्मानुगमाभ्युपगमेऽर्थतः कर्मान्तराणा स्यैव तथोपगमात् । क्रोधादिवासनानामपि मोहनीयकर्मभावस्वरूपत्वात् , अन्यथा जातिव्यक्तिपक्षयोर्वासनाया दुनिरूपत्वादिति प्रतिपत्तव्यम् । भवोपनाहिकर्मणोऽध्यायुष्करूपस्यैकभविकत्वे कथं सप्तजन्मविप्रत्वप्रदकर्मविपाकोपपत्तिः ? इति चेत् , देवनारकयोरेकमेव भवग्रहणं पञ्चेन्द्रियतिर्यमनुष्ययोः सप्ताष्टौ भवग्रहणानि, पृथ्वीकायिकादीनामसंख्ययानि कायस्थितिः इत्यादि सिद्धान्तोतक्रमेण तादृशगतिजातिनामकर्मादिसंचयमत्रीधीनतादृशनवायुःपरम्परानुबन्धानेयमनुपपत्तिरस्माकम् । भवतु, नैकमेव कर्म प्रारब्धतामभुते, किन्तु तत्तत्क्षणवर्तिवद्वल्पसुखदुःखहेतु
१'णामेव ' इति शुद्धम् ।