________________
-
[१६] मभिनिवेशः क्लेशः स्वरसवाही कृमेरपि जातमात्रस्य प्रत्यक्षानुमानागमैरसंभावितो मरणत्रास उच्छेददृष्ट्यात्मकः पूर्वजन्मानुभूतं मरणदुःखमनुमापयति । यथा चायमत्यन्तमूढेषु दृश्यते क्लेशस्तथा विदुषोऽपि विज्ञातपूर्वापरान्तस्य रूढः, कस्मात् ? समाना हि तयोः कुशलाकुशलयोमरणदुःखानुभवादियं वासनेति ॥
(२०)-प्रवाविद्या स्थानाङ्गोक्तं दशविधं मिथ्यात्वमेव। अस्मिताया अदृश्ये (श्च दृश्ये)हगारोपरूपत्वे चान्तर्भाव:(१)। बौद्धदृश्यहगैक्यापत्तिस्वीलारे तु हैष्टिवादसृष्टिवादापत्तिः (?)। अहङ्कारममकारवीजरूपत्वे तु रागद्वेषान्तर्भाव इति । रागद्वेषो कषायभेदा एव । 'अभिनिवेशश्वोदाहृतोऽर्थतो भयसंज्ञात्मक एव, स च संज्ञान्तरोपलक्षणम् , विदुषोऽपि भय इवाहारादावप्यभिनिवेशदर्शनात । केवलं विदुषा(पोऽ)प्रमत्ततादशायां दशसंज्ञाविष्कम्भणे न कश्चिदयमभिनिवेशः। संज्ञा च मोहाभिनिवेशः, संज्ञा च मोहाभिव्यक्त चैतन्यमिति सर्वेऽपि लेशा मोहप्रकृत्युदयजभाव एव, अत एव क्लेशतये फैवल्यसिद्धिः, मोहक्षयस्य तद्धेतुत्वात् इति पारमर्षरहस्यम।।
६ स्थानागसूत्रे १० स्थाने | २ अस्मिताया अपि दृश्ये गारोपरूपत्वे चशि वा दृश्यारोपरूपत्वे मिथ्यात्व एवान्तरभावः। आरोपानहीवारे 'बौद्धदृश्य इत्यादिना दृष्टिसृष्टिवादापत्तिदोषः। (दृष्टिसृष्टिवादप्रक्रियालेशस्तु अद्वैतसिद्धि पृ०५३३ । सिद्धान्तलेश' परिच्छेद २ गो. ४० श्रादिपु द्रष्टव्यः)।३ 'ष्टिसृष्टिवाद' इति स्यात् ।