________________
[२०]
ते प्रतिप्रसवहेयाः सूक्ष्माः ॥ २- १० ॥ भाष्यम् - ते पञ्च क्लेशा दग्धवीजकल्पा योगिनश्चरिताधिकारे चेतसि प्रलीने सह तेनैवास्तं गच्छन्ति ||
( २० ) - क्षीणमोह संबन्धियथाख्यात चारित्रद्देया इत्यर्थः || स्थितानां तु बीजभावोपगतानां -
ध्यानहेयास्तद्वृत्तयः ॥ २-११ ॥ क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥२- १२ सति मूले तद्विपाको जात्यायुर्भोगाः ॥ २-१३ ॥
भाष्यम् - सत्सु क्लेशेषु कर्माशयो विपाकारम्भी भवति, नोच्छिन्नक्लेशमूलः । यथा तुपावनद्धाः शालितण्डुला श्रदग्धबीजभावाः प्ररोहसमर्थाः भवन्ति, नापनीततुपा दग्धवीजभावावा, तथा क्लेशावनद्धः कर्माशयो विपाकप्ररोही भवति, नापनीतक्लेशो न प्रसंख्यानदग्धक्लेशवीजभावो वेति । मच विपाकस्त्रिविधो जातिरायुर्भोग इति । तत्रेदं विचार्यते किमेकं कर्मैकस्य जन्मनः कारणम् ? अथैकं कमनेकं जन्माक्षिपतीति ? । द्वितीया विचारणा- किमनेकं कर्मानिकं जन्म निर्वर्तयति ? थानेकं कर्मकं जन्म निर्वर्तयति ? इति । न तावदेकं कर्म एकस्य जन्मनः कारणम्, कस्मात् ? अनादिकालप्रचितम्यासंख्येयस्यावशिष्टस्य कर्मणः सांयतिक्रम्य च फलक्रमानियमात् अनाश्रामो लोकस्य प्रमुक्तः स चानिष्ट इति । न चैकं कर्मानेकस्य जन्मनः कारणम्, कम्मान् ?
-