________________
[१८] सपत्नः। यथा वाऽगोष्पदं न गोष्पदाभावो न गोष्पदमा किन्तु देश एव ताभ्यामन्यद्वस्त्वन्तरम् । एवमविद्या न प्रमाणं न प्रमाणाभावः किन्तु विद्याविपरीतं ज्ञानान्तरमविद्येति ॥ दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥२-६ ॥
भाष्यम्-पुरुषो दृक्शक्तिर्बुद्धिदर्शनशक्तिरित्येतयोरेकस्वरूपापत्तिरिवास्मिता क्लेश उच्यते । भोक्तभोग्यशत्योरत्यन्तविभक्तयोरत्यन्तासंकीर्णयोरविभागप्राप्ताविव सत्यां भोगः कल्पते । स्वरूपप्रतिलम्भे तु तयोः कैवल्यमेव भवति, कुतो भोगः ? इति । तथा चोक्तम्-"बुद्धितः परमपुरुषमाकारशीलविद्यादिभिर्विभक्तमपश्यन् कुर्यात् तत्रात्मबुद्धि मोहेनेति"॥
सुखानुशयी रागः।। २-७॥ भाष्यम्-सुखाभिज्ञस्य सुखानुस्मृतिपूर्वः सुखे तत्साधने वा यो गर्द्धस्तृष्णा लोभः स राग इति ।
दुःखानुशयी द्वेषः ॥२-८॥ भाप्यम्-दुःखाभिज्ञस्य दुःखानुस्मृतिपूर्वो दुःखे तत्साधने वा यः प्रतिघो मन्युर्जिघांसा क्रोधः स द्वेषः ॥ स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ॥२-९।
भाप्यम्-सर्वस्य प्राणिन इयमात्माशीनित्या भवति, "मा न भूवं, भूयासम्” इति। न चाननुभूतमरणधर्मकस्यैपा भवत्यात्माशीः । एतया च पूर्वजन्मानुभवः प्रतीयते । स चाय