________________
[ १७ ]
भाष्यम् - अनित्यकार्ये नित्यख्यातिः, तद्यथा - धुवा पृथिवी, ध्रुवासचन्द्रतारका द्यौः, अमृता दिवौकसः इति । तथाsशुचौ परमवीभत्से काये - " स्थानाद्वीजादुपष्टम्भान्नि:स्यन्दान्निधनादपि । कायमाधेयशौचत्वात्पण्डिता शुचिं विदुः ॥ १ ॥ " इत्यशुचौ शुचिख्यातिर्दृश्यते । नवेव शशाङ्कलेखा कमनीयेयं कन्या मध्वमृतावयवनिर्मितेव चन्द्रं भित्त्वा निःसृतेव ज्ञायते, नीलोत्पलपत्रायताची हावगर्भाभ्यां लोचनाभ्यां जीवलोकमाश्वासयन्तीवेति, कस्य केनाभिसंबन्धः १ भवति चैवमशुचौ शुचिविपर्यासप्रत्यय इति । एतेनापुण्ये पुण्यप्रत्ययः, तथैवानर्थे चार्थप्रत्ययो व्याख्यातः । तथा दुःखे सुखख्यातिं वच्यति, “ परिणामतापसंस्कारदुःखैर्गुवृत्तिविरोधाच्च दुःखमेव सर्व विवेकिनः " [ २. १५. ] इति तत्र सुखख्यातिरविद्या । तथाऽनात्मन्यात्मख्यातिःबाह्योपकरणेषु चेतनाचेतनेषु भोगाधिष्ठाने वा शरीरे पुरुषोपकरणे वा मनसि अनात्मन्यात्मख्यातिरिति । तथैतदन्यत्रोक्तम् - " व्यक्तमव्यक्तं वा सत्त्वमात्मत्वेनाभिप्रतीत्य तस्य संपदमनु नन्दत्यात्मसंपदं मन्वानः, तस्य चापदमनु शोचत्यात्मव्यापदं मन्वानः स सर्वोऽप्रतिबुद्धः " इति । एषा चतुष्पदा भवत्यविद्या मूलमस्य क्लेशसंतानस्य कर्माशयस्य च सविपाकस्येति । तस्याश्चामित्रागोष्पदवद्वस्तुसतत्त्वं विज्ञेयम् । यथा नामित्रो मित्राभावो न मित्रमात्रं किंतु तद्विरुद्धः
-
--