________________
[१५] (१०)-"वाह्यं तपः परमदुश्वरमाचरनमाध्यात्मिकस्य तपसः परिहणार्थम् ।" इत्यस्मीयाः ॥ सर्वत्रानुष्ठाने मुख्यप्रवर्तकशाखस्मृतिद्वारा तदादिप्रवर्तकपरमगुरोहृदये निधानमीश्वरप्रणिधानम् । तदुक्तम्-"अस्मिन् हृदयस्थे सति हृदयस्थस्तत्त्वतो मुनीन्द्र इति । हत्यस्थिते व तस्मिन् नियमात्सर्वार्थसंसिद्धिः ॥ १ ॥" इत्यादि, इत्यस्मन्मतम् ।। समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥२-२॥ अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः॥२-३॥ अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदारा
णाम् ॥ २-४॥ ___ भाप्यम्-अत्राविद्या क्षेत्रं प्रसवभूभिरुत्तरेपामस्मितादीनां चतुर्विकल्पितानां प्रसुप्ततनुविच्छिन्नोदाराणाम् । तत्र का प्रसुप्तिः १ चेतसि शक्तिमात्रप्रतिष्ठानां वीजभावोपगमः, तस्य प्रबोध आलम्बने संमुखीभावः, प्रसंख्यानवतो दग्धकेशवीजस्य संमुखीभूतेऽप्यालम्बने नासौ पुनरस्ति, दग्धवीजस्य कुतः प्ररोह इति । अतः क्षीणक्लेशः कुशलश्वरमदेह इत्युच्यते । तत्रैव सा दग्धवीजमावा पञ्चमी क्लेशावस्था, नान्यत्रेति । सतां लेशानां तदा वीजसामर्थ्य दग्धमिति विषयस्य संमुखीभावेऽपि सति न भवत्येषां प्रबोधः इत्युक्ता प्रसुप्तिर्दन्धवीजानामग्ररोहश्च । तनुत्वमुच्यते-प्रतिपक्षभावनो