________________
[१४] नुभवापरनामधेया शास्त्रोक्तायां दिशि, तदतिकान्तमीन्द्रिय विशेषमवलम्बमाना तत्त्वतो द्वितीयापूर्वकरणभाविसामर्थ्ययोगप्रभवेयं समाधिप्रज्ञा, इति युक्तः पन्थाः । प्रकृतम्____ समाधिप्रज्ञाप्रतिलम्भे योगिनः प्रज्ञाकृतः संस्कारो नवो नवो जायतेतज्जः संस्कारोऽन्यसंस्कारप्रतिवन्धी ॥१-५० ॥ तस्यापि निरोधेसर्वनिरोधान्निर्वीजःसमाधिः॥१-५१॥ ॥ इति पातञ्जले सायप्रवचने योगशाख्ने
समाधिपादः प्रथमः ॥
उद्दिष्टः समाहितचित्तस्य योगः। कथं व्युत्थितचित्तोऽपि योगयुक्तः स्यात् ? इत्येतदारभ्यतेतपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥२-१॥
भाष्यम्-नातपस्विनो योगः सिध्यति, अनादिकर्मक्लेशवासनाचित्रा प्रत्युपस्थितविषयजाला चाशुद्धिर्नान्तरेण तपः संभेदमापद्यत इति तपस उपादानम् । तच्च चित्तप्रसादनमवाधमानमनेनासेव्यमिति मन्यते । स्वाध्यायः प्रणवादिपवित्राणां जपः मोक्षशास्त्राध्ययनं वा। ईश्वरप्रणिधानं मर्वक्रियाणां परमगुरौ अर्पणं तत्फलसंन्यासो वा।
२ शास्त्रातिकान्तम् ।