________________
[१३]
मोहापेक्षया सबीजत्वम्, क्षीणमोहापेक्षया तु निर्योजत्वमपि स्यात् इति त्वार्हतसिद्धान्तरहस्यम् ॥ निर्विचारवैशारयेऽध्यात्मप्रसादः ॥ १-४७ ॥
ऋतम्भरा तत्र प्रज्ञा ॥ १-४८ ॥
सा पुनः-
श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात्
॥ १-४९ ॥
भाष्यम् - श्रुतमागमविज्ञानं तत् सामान्यविषयं, ना गमेन शक्यो विशेषोऽभिघातुम्, कस्मात् : न हि विशेषे कृतसंकेत: शब्द इति । तथाऽनुमानं सामान्यविषयमेव, य प्राप्तिस्तत्र गतिः, यत्राप्राप्तिस्तत्र न भवति गतिरित्युक्त अनुमानेन च सामान्येनोपसंहारः । तस्माच्छ्रुतानुमानविषये न विशेषः कश्चिदस्ति इति । न चास्य सूक्ष्मव्यवहितविप्रकृ ष्टस्य वस्तुनो लोकप्रत्यक्षेण ग्रहणम्, न चास्य विशेषस्य प्रमाणकस्याभावोऽस्तीति समाधिप्रज्ञानिग्रद्य एव स विशेष भवति भूतसूक्ष्मगतो वा पुरुषगतो वा । तस्माच्छ्रुतानुमान प्रज्ञाभ्यामन्यविषया सा प्रज्ञा विशेषार्थत्वादिति ||
।
(य०)—“सैंध्येव दिनरात्रिभ्यां केवैलाच्च श्रुतात्पृथग् । बुधै नुभवो दृष्टः केवलावरुणोदयः || १ ||" इत्यस्मदुक्तलक्षणलक्षित १ ज्ञानसार अष्टक २६ श्लो. १२ " केवलश्रुतयोः” इत्या