________________
[१०] तस्य वाचकः प्रणवः॥ १-२७ ॥ सजपस्तदर्थभावनम् ॥ १-२८ ॥ ततःप्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च!१-२९॥ व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्त
विक्षेपास्तेऽन्तरायाः ॥ १-३०॥ दुःखदौर्मनस्याह्नमेजयत्व श्वासप्रश्वासा विक्षेप
सहभुवः ॥ १-३१ ॥ तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ १-३२ ॥ मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ॥ १-३३ ॥ ___ भाष्यम्-तत्र सर्वप्राणिषु सुखसंभोगापन्नेषु मैत्री भाव__ येत् । दुःखितेषु करुणां, पुण्यात्मकेषु मुदितां, अपुण्यशीले
धूपेक्षाम् । ___(य०)-अस्मदाचार्यास्तु-"परहितचिन्ता मैत्री परदुःखविनाशिनी तथा करुणा । परसुखतुष्टिमुदिता परदोषोपेक्षणमुपेक्षा ॥ १ ॥” इति लक्षयित्वा ॥ उपकारिस्वजनेतरसामान्यता