________________
[६] दुर्निवारम् । केवलसत्त्वातिशयवतः पुरुषविशेषस्य कल्पने च केवलरजत्तमोऽतिशयवतोरपि कल्पनापत्तिः । कथं चैवमात्मत्वावच्छेदेनानादिसंसारसंबन्धनिमित्ततोपपत्तिः ? । ईश्वरातिरिक्तात्मत्वेन तथात्वकल्पने व गौरवम् । केवलसत्त्वोत्कर्षवददृष्टपुरुषकल्पने च नित्यज्ञानाद्यानयो नैयायिकाद्यभिमत एव स किं न कल्प्यते ? , तस्मात्सकलकर्मनिर्मुक्ते सिद्ध एव भवतीश्वरत्वं युक्तम् , उपासनौपयिककेवलज्ञानादिगुणानां तत्रैव संभवात् । अनादिशुद्धत्वश्रद्धापि प्रवाहापेक्षया तत्रैव पूरणीया । यदाहुः श्रीहरिभद्राचार्याः-"एसो प्रणाइमं चिच सुद्धो य तो अणाइसुद्धो त्ति । जुत्तो य पवाहेणं ण पन्नहा सुद्धया सम्मं ॥१॥" (अनादिविशिका. १२) सिद्धानामनेकत्वात् " एक ईश्वरः” इति श्रद्धा न पूर्यत इति चेत्, न, सिद्धेतरवृत्त्यत्यन्ताभावप्रतियोग्यतिशयत्वरूपस्यैकत्वस्य सिद्धानामनेकोऽप्यबाधात्सलयारूपत्यैकत्वस्य चाप्रयोजकत्वात् । गम्यतां वा समध्यपेक्षया तदपि, स्वरूपास्तित्वसाश्यास्तित्वयोरविनिर्भागवृत्तित्वत्य सार्वत्रिकत्वात् । जगत्कर्तुः सर्वथैकस्य पुरुषस्थाभ्युपगमे च जगत्कारणस्य शरीरस्यापि बलादापत्तिः, कार्यत्वे सर्तकत्वस्येव शरीरजन्यत्वस्यापि व्याप्तेरभिधातुं शक्यत्वादिति । तस्य च सिद्धस्य भगवत ईश्वरस्यानुनहोऽपि योगिनोऽपुनर्बन्धकाववत्योचितसदाचारलार एव, न बनुजिघृक्षारूपस्तस्या रागरूपत्वान्, तत्व च द्वेषसहचरितत्वात् , रागद्वेषवतश्तरवदनाराध्यत्वादिति संक्षेपः ।। प्रकृतम्