________________
नवम-स्तवः
नवम-स्तवः। रक्तामरीमुकुटमुक्ताफलप्रकरपृक्ताङ्घ्रिपङ्कजयुगां,
व्यक्तावदानसृतसूक्तामृताकलनसक्तामसीमसुषमाम् । युक्तागमप्रथनशक्तात्मवादपरिषिक्ताणिमादिलतिकां,
भक्ताश्रयां श्रय विविक्तात्मना धनघृणाकामगेन्द्रतनयाम् ॥१॥ आद्यामुदग्रगुणहयाभवन्निगमपद्यावरूढसुलभां,
गद्यावलीवलितपद्यावभासभरविद्याप्रदानकुशलाम् ।
नवम-स्तवः । १-रक्ताः अनुरक्ताः, या अमर्यः देवाड्गनाः तासां मुकुटेषु मुक्ताफलानां यः प्रकर' समूहः, तेन पृक्त चुम्बितं अनपङ्कजयो. पदपद्मयोयुगे युगल यस्याः । व्यक्तं प्रसिद्ध यत् अवदानं कर्मवृत्त, तेन सृत व्याप्त सूक्तं प्रशंसावाद, एब अमृतं तस्य आकलने श्रवणे सक्तां प्रसक्ताम् । असीमा सीमामतिक्रान्ता सुषमा सौन्दर्य यस्याः सा ताम् । युक्त. योग्यतया संमत , यः आगमः अर्धनारीश्वरमुखोद्गत, तस्य प्रथने प्रख्यापने, शक्तः सामर्थ्यभरित , य. आत्मवादः अहमामर्शः तेन परिषिक्ता आर्द्राकृता अणिमादिलतिका यस्या सा ताम् । भक्तस्य आश्रया शरणीभूता, ताम् । विविक्तः दम्भाहकारादिशून्यः स चासौ आत्मा च तेन । धना निविडा या घृणा अनुकम्पा तया श्राक्तां आर्द्राम् । अगानां इन्द्रः हिमालयः तस्य तनयाम् । श्रय शरणं प्रपद्यस्व ।
२-आद्यां मूलकारणरूपां, उग्राः उत्कटा. ये गुणा दयादाक्षिण्यादयः तैः हृद्या मनोज्ञा भवन्ती, निगमपद्या तन्त्रानुशिष्टो मार्ग , तस्मिन् अवरूढानां, परिनिष्ठितानां कृते सुलभा सुखेन लभ्या । गद्यानां अपादाना पदसमूहानां या श्रावली वीथी, तया वलित. समेत. य. पद्यानां छन्दोबद्वाना अवभासभर. स्फूर्तिप्राचुयें, तथाविधायाः विद्यायाः ज्ञानराशेः प्रदाने वितरणे कुशलां निपुणाम् । विद्याधरीभिः किन्नरवधूभिः विहितं सपादितं, पादाय हितं पाद्यं पादप्रक्षालनजलं तदादिकं यस्या , ताम् । भृशं अत्यन्तं यथास्यात्तथा अविद्याया अज्ञानस्य अवसादनं उच्छेदः तस्य कृते निरवद्या सुन्दरा प्राकृतिर्यस्या. ताम् । मननेन अन्त