________________
४८
दुर्गा-पुष्पाञ्जलिः
श्राज्ञादानान्दोलनहृद्याधरविम्ब,
वन्देऽमन्दद्योतकदम्बां जगदम्बाम् ॥८॥
ब्रह्मविष्णुमहेशांश्च गमयन्ती महर्षिताम् ।
१
यन्त्रात्मना परिणता पुनातु परमेश्वरी ॥६॥
|| इत्यम्वा-वन्दना ||८||
वसरे यत् आन्दोलनं इतस्ततो वा विजृम्भणं तेन हृद्यं रमणीयं अधरविम्वं अधरोष्ठकान्ति र्यस्याः ताम् ।
६- ब्रह्मविष्णुमहेशान् महर्पितां महर्षिभावं, गमयन्ती प्रथयन्ती, यन्त्रात्मना त्रिकोणादियन्त्राकारेण परिणता परिणतिमासादयन्ती परमेश्वरी परब्रह्म महिषी पुनातु पवित्रयतु लोकान् । इह ब्रह्मादीनां ऋपित्वमित्युत्कर्षस्य पराकाष्ठा । 'अतस्त्वामाराध्यां हरिहर विरिञ्च्यादिभिरपि' इति, तथा 'त्वदन्य. पाणिभ्यामभयवरदो दैवतगणः, त्वमेकानैवासि प्रकटितवराभीत्यभिनया' इति च वस्तुस्थितिकथनमेव प्रतिपत्तव्यं, न पुनश्चाटूक्तिरिति शम् ।
॥ इत्यम्बा-वन्दना ॥
१ - यन्त्रपदेन श्रीचक्रमिह परामृश्यते । यन्महिमाशंसनं वेदेषूपनिषत्सु च विविधभङ्गिभिरुपवर्ण्यमानं परीच्यते । अस्योद्धारो यामले
'विन्दुत्रिकोणवसुकोणदशारयुग्म
मन्वस्रनागदल संयुतषोडशारम् ।
वृत्तत्रयं च धरणी सदनत्रयं च
श्रीचक्रमेतदुदितं परदेवतायाः ॥' इति ।
एवं - 'चतुर्भिः शिवचक्रश्च शक्तिचक्रश्च पश्चभिः । शिवशक्त्यात्मकं ज्ञेयं श्रीचक्रं शिवयो वपुः ॥ इति च ।
शिवशक्तिसंपुटमचे मोमसूर्यानलात्मके चास्मिन् यन्त्रराजे ऊर्ध्वमुखानि त्रिकोणानि शिवात्मकानि अधोमुखानि च शक्त्यात्मकानीति प्रतिपत्तव्यम् । 'अधोमुखं चतुष्कोणं शिवचक्रात्मकं विदुरित्यपि तन्त्रान्तरानुशिष्टो मार्गः । तत्र च यथाम्नायं स्व-स्वदेशिकमतानुसरणमेव शरण्यं प्रतीमः । एकमपीदं मातृकादितादात्म्यमहिम्ना मेरु- कैलास - भूप्रस्तारैस्त्रिधा पर्यवस्यति । अस्योल्लेखप्रकारोऽपि संहार-सृष्टि-स्थितिभेदैः कल्पसूत्र- विशुद्ध श्वरतन्त्रादिष्वनेकधा प्रपचित इति । सुन्दरीतापिनी - प्रपञ्चसारसंग्रह- वामकेश्वरादिषु च भूयानस्य विस्तर इत्यधिकं तत एव द्रष्टव्यम् ।