________________
अष्टम-स्तवः स्फूर्जत्सान्द्रामोदतरङ्गावलिलीनै
रर्चामाप्तां, पोडशमुख्यरुपचारैः। उद्यन्नानालङ्क तिरत्नश्रुतिपुञ्जा,
वन्देऽमन्दद्योतकदम्बां जगदम्बाम् ॥७॥ माद्यद्द वारन्धनमस्यानिकुरम्बा,
व्यापच्छैलच्छेदविलक्षीकृतशम्बाम् ।
७-स्फूर्जत् स्फारस्फुरत् , यः सान्द्रः प्रामोदः घनानन्दः, तस्य या तरंगावलिः वीचिप्रवाह', तत्र लीनः अन्तःसंपृक्तैः, पोडशमुख्यैः गन्धादिभिरुपचारैः भावोपहारायमाणैः । यत्तु परमाद्वयदर्शने संविन्मयतयावस्थानमेव यागः, तत्समापत्तिरेव च फलमिति प्रतिपादयता स्वात्मतया प्रत्यभिज्ञानमेव इह पूजापदार्थ इत्यादि सिद्धान्तितम् , तत्केवलं उत्तमाधिकारिपरमेव मन्तव्यम् । अस्मदादीनाम् लौकिकउपासनामार्गस्त्वस्माद् भिन्नप्रणालिक एवेति देशिकसमयः। तत एव च तन्त्रालोके
'पूजा नाम न पुष्पायर्या मतिः क्रियते दृढ़ा।
निर्विकल्पे महाव्योम्नि सा पूजा ह्यादराल्लयः ।। इत्यादि पठ्यते । अतएव आगमविदः
'इन्द्रियद्वारसंग्राह्य र्गन्धाद्यरात्मदेवता ।
स्वभावेन समाराध्या ज्ञातु सोऽयं महामखः ॥ इति । तथा -
'करणेन्द्रियचक्रस्थां देवों संवित्स्वरूपिणीम् ।
विश्वाहंकृतिपुष्पैस्तु पूजयेत् सर्वसिद्धये ।।'
इत्येवमादि च प्रतिपद्यन्त इति सुदूरेक्षिकया पर्यालोच्यम् । उद्यन्त्यः चकासन्त्य., याः नाना अनेकाः अलंकृतयः आभूषणानि, तासु जटितानां रत्नानां धु तिपुञ्जः दीप्तिचयः अस्ति अस्याम् ।
८-माद्यन्तः हर्षोल्लासपरीताः, देवाः द्रुहिणप्रभृत्तयः, तैः प्रारब्धा. प्रवर्तिताः, याः नमस्याः नतय., तासां निकुरम्बः समूहः अस्ति अस्याम् । व्यापदां भयकरापदां यः शैलः कूटः, तस्य च्छे देन सम्यगुच्छेदेन, विलक्षीकृत. विस्मयमानीतः शम्बो वनमनया, ताम् । आज्ञादाने अनुचरत्वमापन्न भ्यो ब्रह्मादिभ्यः आदेशप्रदाना