SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ दुर्गा-पुष्पाञ्जलिः नीपश्रणीशालिनि चिन्तामणिगेहे, पीठासीनामावृतिचक्ररुपगूढाम् । ब्रह्मादिभ्यो वाञ्छितमर्थं प्रथयन्ती, वन्देऽमन्दद्योतकदम्यां जगदम्बाम् ॥६॥ पर्ण पतनमिति निरुक्त्या पतनरहिता वा। अथवा अपगतं ऋणं यस्या. सेति । तदुक्तं देवीस्तवे 'ऋणमिष्टमदत्त्वैव त्वन्नाम जपतो मम । शिवे ! कथमपर्णेति रूढि रायते न ते ।' प्रत्यक्षं पश्यतो लोकस्य, तापनिरासाय संतापापनुत्त्यै, सपर्णा पर्णमात्मनि गृहणाना । वर्णेभ्यः पश्चाशतस्त्रिपण्टेर्वा अतीता अतिक्रान्ता । अथवा वर्णाः सत्वरजस्तमांसि, तेभ्यः अतीता निष्क्रान्ता, साम्यावस्थाभिमानिनी इत्यर्थः । वर्णविशेषान् मातृकोद्भवान् मन्त्रशरीरघटकान् जुषमाणा सेवमाना । वैचित्र्यस्य नानाविधस्य प्रमातृप्रमेयपरिगतस्य उद्भासनाय वहिरुल्लासाय याः सूनाः तनयात्वमनुप्रपन्नाः स्वाङ्गादेवोल्लसन्त्यः सहस्राधिकाः शक्तयः, तासां आवलिः पङ्क्तिः, तस्याः वल्ली व्रततीम् । ६-नीपानां कदम्बकुसुमानां श्रेणी वीथीं शालते तथाभूते, कदम्बप्राकारपरिवृते चिन्तामणिगेहे पीठासीनाम् । पीठमिह श्रीमातुरुपवेशनार्थ पञ्चभिव्रह्मभिनिर्मितो मञ्चकविशेपः, तत्र आसीनाम् उपविष्टाम् । श्रावृतिचक्रः आवृतीनां आवरणदेवतानां चक्रः समुदायः उपगूढां कृतपरिरम्भाम् । ब्रह्मादिभ्य. ब्रह्मविष्णुरुद्रेभ्यः वाञ्छितमिष्टमर्थ प्रयोजनजातं प्रथयन्ती पातन्वतीम् । चिन्तामणिगेहं भगवत्याः प्रधान वासभवनम् । तच्च 'सुधासिंधो मध्ये सुरविटपिवाटीपरिवृते मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे । शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां भजन्ति त्वां धन्या. कतिचन चिदानन्दलहरीम् ।।' इत्येवमुपवर्ण्यमानं अलौकिकं किमपि दिव्यमागारम् ।
SR No.010620
Book TitleDurgapushpanjali
Original Sutra AuthorN/A
AuthorJinvijay, Gangadhar Dvivedi
PublisherRajasthan Puratattvanveshan Mandir
Publication Year1957
Total Pages201
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy