________________
अष्टम-स्तवः
किं वन्धूकः, किं नु जपाभिः, किमु रक्त -
___ जैस्यद्भास्कररागैरुत सृष्टः। अङ्ग रिङ्गत्कान्तिवितानैरभिरामां,
वन्देऽमन्दद्योतकदम्बां जगदम्बाम् ॥४॥ याऽपाहो तापनिरासाय सपर्णा,
वर्णातीता वर्णविशेपाञ्ज पमाणा। तां वैचित्र्योद्भासनसूनावलिवल्ली,
- वन्देऽमन्दद्योतकदम्बां जगदम्बाम् ॥५॥
__४-बन्धूकः बन्धूकपुष्पैः किं नु, जपाभिः जपापुष्पैर्वा किं नु, रक्तैररुणवर्णैः अजैरुत्पलै र्वा किमु ? उद्यतः उदयं गच्छतः भास्करस्य बालातपमूर्तः, रागैः लोहितवर्णे, सृष्टैरभिनिष्पन्न र्वा किमु? यतो हि अरुणिमातिशयमावहन्तोऽप्यमी लौकिका पदार्थसार्थाः नियतिनियन्त्रणया स्वस्वोत्कर्पविश्रान्तिभुवो गुणाधान
शा स्पृहणीया भवन्तोऽपि नाम्बया अरुणागरागया सह उपमातुलामधिरोद्ध अलङ्कर्मीणा इति किमेभिः सृष्टैरसृष्टैर्वा फलमुपकल्पनीयम् । रिङ्गन्तीनां स्फीतं समुपसर्पन्तीनां, कान्तीनां भासां, वितानः विस्तारः येषु एवंभूतैः अङ्गः करचरणादिभिः अभिरामा सुन्दरीम् । |
५-अहो इत्याश्चर्येऽव्ययम् । या, अपर्णा न विद्यते पर्ण पत्रं अदनीयत्वेन यस्या. सा तथाभूता । तथा च पुराणे
'आहारे त्यक्तपर्णाभूत् यस्माद् हिमवतः सुता ।
तेन देवरपर्णेति कथिता पृथिवीतले ।।' अथवा 'अपर्णा तु निराहास तां माता प्रत्यभाषत' इति निराहारा इत्यर्थः । कुमारसंभवेऽपि'स्वयं विशीर्णद्र मपर्णवृत्तिता
परा हि काष्ठा तपसस्तया पुन' । तदप्यपाकीर्णमतः प्रियंवदां
वदन्त्यपर्णेति च तां पुराविदः ।।