________________
५४
दुर्गा-पुष्पाञ्जलिः ऐन्द्रीं भूतिं भक्तजनेभ्यो वितरन्ती,
ही कुर्वाणां, तद्विमुखेषु प्रतिवेलम् । श्री निर्दोलां तद्भवनान्ते विदधानां,
वन्देऽमन्दद्योतकदम्बां जगदम्बाम् ॥३॥
३-भक्तजनेभ्यः भक्त्युच्छलितहृदयेभ्यश्चरणाराधकेभ्यः, ऐन्द्री इन्द्रोपभोगयोग्यां, भूतिम् ऐश्वर्य,वितरन्ती सप्रसादमुपहरन्तीम् । तेभ्यो विमुखा. तद्विमुखाः भक्तजनसपत्नाः, तेषु प्रतिवेलं प्रतिनिमेपं, ह्रीं कुर्वाणाम् , पराजितत्वेन लज्जाऽधोमुखान् विदधतीम् । अथवा मायावीजप्रतिपाद्याः सृष्टिस्थितिसंहारास्तदर्थत्वेन पर्यवस्यन्ति इति तान् जन्मजरामरणक्लेशकदर्थितान् कुर्वाणाम् । अत्र 'ही ई' इति पदयोः समासे हीमिति रूपम् । तच्च कूटपारायणवर्त्मना सद्गमय्य नेयम् । अस्य विष्णो. पत्नी 'ई' इत्येवं रूपोऽर्थोऽपि यथासंभवमुन्नेयः । तदित्यं कल्पद्रु मायमाणस्यास्य मायावीजस्य तत्प्रतिपाद्यायाश्रियश्चार्थो यथाप्रसङ्गमूहनीय. । एवमुत्तरत्र श्रीपदेऽपि द्रष्टव्यम् । हीमिति स्वरादेराकृतिगणत्वादव्ययत्वम् । अतएव ललितात्रिशत्यां 'हीं नमः' इति चतुर्थ्यन्तं प्रयुज्यमानमुपपद्यते ।
वस्तुतस्तु 'ऐम्' इत्यादीनां वर्णविशेषाणां तद्विशेषघटितानां कूटानां च यथान्यायं यथादर्शनं वा पञ्चाशतस्त्रिपष्ट वर्णानामिव व्यवस्थैव न्याय्या । अतएव पोडशस्वरेपु पश्चस्वरान् गृह णाना ज्योतिपिका, नवस्वरान् गृहणाना वैयाकरणाश्च स्थेयभावं न जहति । दीक्षितैः शब्दकौस्तुभस्य पस्पशाह्निके दीर्घलकारं पश्यद्भिः किञ्चिदभिहितमपीति तत एवाकलनीयम् । अपि च, जात्यादिशब्दविभागसंरम्भोऽपि केवलीभावेन ईश्वरं नाभिधत्ते । जात्यादिकक्षातिक्रान्त वस्तु कथमिवाभिध्यात् । परमेश्वर इति वृत्तिस्तु अभिधत्ते इत्यन्यदेतत् । किमियता,
ओङ्कारोऽपि तादृशदोषावर्तान्नातिरिच्यते । अतएव च - 'ईशानः सर्वविद्यानाम् इति प्रतिपादितं वस्तु स्वाभिधेयं वर्णकूटपारायणं चतुरस्र मन्यत इत्यलं प्रसक्तानुप्रसक्त्या।
तद्भवनान्ते भक्तजनास्यावासेपु, निर्दोलां निश्चला, श्रीं श्रियोऽवस्थानं विधानाम्। वराटिकान्वेपणाय प्रवृत्तश्चिन्तामणि लब्धवानिति वासिष्ठरामायणोक्त
आभाणकन्यायेन इह वाग्भव-माया कमलावीजप्रयोगः भगवत्या स्त्रिपुरसुन्दर्यानितारीयोगोऽपि श्लेपमर्यादया ध्वनितो यथायथं विभावनीय ।