________________
सप्तम स्तवः
भवेद्यदि जपावनी सरिदुदञ्चदर्कच्छटास्फुटारुणिम मज्जिमा मसृणलोहितेहान्जिनी ।
४१
कथंचन तदा मनो जननि ! तावकाङ्गप्रभा
श्रियं तुलपितु व्रजेत्तदपि तस्य कापेयकम् ||५|| निसर्गमधुराकृते ! गिरिशनेत्ररा कायिते !
नवावृतिचमत्कृते ! परिलसत्सपर्याकृते ।
मयाद्य मनसा धृतेऽचिरय मातरुद्यद्दया
सुधाहदनिमज्जनाकरणकेलिसीमायिते ! ॥ ६ ॥
५-यदि अवनी धरामण्डलं जपापुष्पवत् अरुणारुणं भवेत् । संभावनायां लिड् । जपापुष्पं, 'गुडहल' इति लोके प्रसिद्धं रक्तवर्णं पुष्पम् । सरित् तटिनी, तस्यां उदुश्र्वतः उदयं गच्छत, अर्कस्य विवस्वतः, या छटा दीप्तिपुञ्जः तस्या अपि यः स्फुटः स्फीत, अरुणिमा लौहित्य, तस्य मजिमा मज्जनम् अवगाहनमिति यावत्, यदि नाम भवेत् । इहापि पुनर्मसृणलोहिता स्निग्धरक्तवर्णस्वर्णा, अन्जानां समूह अब्जिनी कमलवनी यदि स्यात् । तदा हे जननि ! तावकानि यानि अगानि सिन्दूरारुणवर्णानि करचरणादीनि तेषां प्रभाश्रियं दीप्तिसौन्दर्य तुलयितु' उपमातु कथञ्चन कथं कथमपि व्रजेत् यायात् । परं तदपि तादृशम् उपमासामञ्जस्यमपि, तस्य कविकर्मासक्तस्य कवितुः, कापेयकं कपिचापलवदुपहासास्पदमेव केवलं भवेत् कापेयकमिति 'कपिज्ञात्योर्दक' (पा० सू० ५. १. १२७ ) इति ढक् प्रत्ययः, ततः स्वार्थे कन् ।
६ - निसर्गमधुरा स्वभावसुन्दरा आकृति स्वरूपं यस्या. तत्सबोधनम् । गिरिशस्य शिवस्य वामनेत्रस्वरूपेण राकायिते, पूर्णचन्द्रमण्डलत्वेन शोभमाने । नव नवसंख्याका' या आवृतयः आवरणानि ताभि: चमत्कृते मञ्जु लस्वरूपे । राज्राजेश्वर्या नवावरणत्वं आगमशास्त्रे सुप्रसिद्धम् । परितः नवावरणमण्डलरूपेण सह लसन्ती या सपर्या वरिवस्या, तस्याः कृते सपरिवारायास्तव अर्चनार्थम्ति भावः । मया श्रद्य पूर्णचन्द्रोल्लासिते पूर्णातिथिपर्वणि, मनसाधृते, एकतानेन हृदयान्त. प्रतिष्ठापिते, उद्यन्ती या दया तस्याः य. सुधाहृदः श्रगाधपीयूष सरः, तत्र निमज्जनाकरणे स्नानावगाहनसंपादने या केलि. क्रीडा तस्याः सीमायिते सीमाभूते हे मातः ! अचिरय स्नानादिकं निर्वर्त्य सत्वरं यागमण्डपमलङ्क ुरुष्व ।