________________
दुर्गा-पुष्पाञ्जलिः उदञ्चय गञ्चलं, रचय सान्द्रसान्द्रां दयां
विकासय निजं पदं, विघटयाशु दुःखत्रयम् । अये ! प्रकटयाधुना विधुततर्कजालामल
प्रबोधरसमाधुरी विविधमङ्गलारम्भिणि ! ॥३॥ त्वयैव जगदङ्क रो भवनविक्रियां नीयते,
किमित्यपरकल्पना तदुदरान्तरालम्बिनी । अनन्यसदृशक्रिये ! भगवतीं विहायाहकं
कथं कथय चेतनः शशविपाणमाप्तुयते ॥४॥
३-दृशौ अपाङ्ग एव अञ्चलं, तत् उदञ्चय उन्मीलय । सान्द्रसान्द्रां घनाधनां, दयां रचय विस्तारय । निजं पदं, स्वकीयं धाम विकासय, दुःखत्रयं आध्यात्मिक-आविदैविक-आधिभौतिकरूपं आशु विघटय वियोजय । अये इति कोमलामन्त्रणे अव्ययम् । विविधानि यानि मङ्गलानि अभीष्टार्थसिद्धिरूपाणि तेषां प्रारम्भ. उन्मेष. अस्ति अस्याम् , तत्संबुद्धिः । विधुतः दूरं उत्तिप्तः, तर्कजालो यस्मात् तादृशः, निरस्तशङ्कातक. य' अमलः निर्मलः प्रबोधरसः स्वसंविदुल्लासः, तस्य माधुरी प्रकटय प्रकाशय ।
४-त्वया भवत्या एव, जगदड्कुर. जगदुत्पत्तिवीज, भवनविक्रियां भावविकाररूपामवस्थां, नीयते इति कल्पनैव स्थेयतया हृदयसंवादमादधाति । तस्या. उदरं तदुदरम् तदुदरान्तरमालम्वते इति तदुदरान्तरालम्विनी, तदन्तःपातिनी प्रतिप्रसवायमाना, अपरा कल्पना कारणान्तरवादः, किमिति निःसारतया प्रस्तूयताम् । समानमिव दृश्यते इति सदृशः । न विद्यते अन्यसदृशी क्रिया व्यापार अस्यामिति तत्संबुद्धिः । लोकोत्तरघटनातत्परे इतिभावः । भगवती ऐश्वर्योल्लासमयीं, विहाय उत्सृज्य, चेतन. सचेतनो भवन् , अहकं अहं, 'अव्ययसर्वनाम्नामकच प्राक् टे.(पा-सू०५३.७१)इत्यकच् प्रत्यय । शशविषाणम् अवस्तुरूपं कल्पनामात्रसार शशशृद्भ, श्राप्तुं अधिगन्तुं, कथं यते उद्युक्तो वर्ते इति कयय, त्वमेव अभिधत्स्व । जगतः सृष्टिनिरूपणप्रस्तावे क्वचिद् विश्रामो वाच्य इति नयेन विविधकारणकल्पनासंघट्ट केवलं गौरवाय परिणमन् न तोदक्षम इति लाघवात् भवत्या सकाशादेव सर्वमपीदं दृश्यजानं प्रसूयत इत्यभ्युपगम एव हृदयंगम पन्या इति भावः।