________________
सप्तम-स्तवः
सप्तम-स्तवः।
निरर्गलसमुन्मिपन्नवनवानुकम्पामृत
प्रवाहरसमाधुरीमसृणमानसोल्लासिनि ! । नमज्जनमनोरथप्रणयनकदीक्षाव्रते !
निधेहि मम मस्तके चरणपङ्कजं तावकम् ॥१॥ नमन्मृडजटाटवीगलितगाङ्गतोयश्रिते !
___ स्फुरन्मधुरविग्रहप्रचुरकान्तिसंदानिते! । सुसौरभकरम्बिते ! त्रिपुरवैरिसीमन्तिनि !
त्वदीय-पदपङ्कजे मम मनो मिलिन्दायताम् ॥२॥
सप्तम-स्तवः। १-निरर्गलं स्वच्छन्दं, समुन्मिषन्ती आविर्भवन्ती, या नवनवा नवोल्लासप्रचुरा, अनुकम्पा कारुण्यं, तदेव अमृतं सुधा, तदुत्त्यो य. प्रवाहरसः रसनिझर , तस्य या माधुरी मधुरिमा, तया मसृणं स्निग्धं मानसं उल्लसति यस्या. सा तथाभूता । तत्सबुद्धिः । नमन्तः श्रद्धया प्रवीभवन्तः ये जना , तेषां ये मनोरथा हृदयोत्त्था अभिलाषाः, तेषां प्रणयनं सम्यक् पूरणमेव, एका दीक्षा यागः, सैव व्रतं नियमो यस्याः तत्सबोधनम् । मम मस्तके शिरसि, तावकं त्वदीयं, चरण.पङ्कजं पादपद्म, निधेहि स्थापय प्रार्थनायां लोट् । पृथ्वीछन्दः।
२-नमन्ती मृडस्य शिवस्य, या जटाटवी जटैव अटवी, जटाभरः ततो गलित स्खलितं, यत् गाङ्गतोय मन्दाकिनीसलिल, तेन श्रिता सेविता । स्फुरन् उल्नसन् , यो मधुरविग्रह लावण्यमय शरीर, तस्य या प्रचुरा कान्ति छवि , तया सन्दानिते बद्ध । 'बद्ध संदानितम्' इत्यमरः । सन्दान संजातमस्य इत्यर्थे तारकादित्वात् इतन् । त्रिपुरवैरिणः त्रिपुरासुरहन्तु' शिवस्य सीमन्तिनी योषित् । त्वदीय यत् पदपङ्कजं चरणारविन्दं तस्मिन् । मम मनः मिलिन्दायताम् मिलिन्दो भ्रमरः स इव तन्मयीभावम् आपद्यताम् । मिलिन्दायतामित्याचारार्थे क्यच ।