________________
४२
दुर्गा-पुष्पाञ्जलिः महेश्वरपरिग्रहे ! स्तुतिपरायणानुग्रहे !
महास्फुरणविग्रहे ! निरययातनानिग्रहे ! । प्रसीद सुखसंग्रहे ! प्रणतदुःखभङ्गाग्रहे !
विनाशितमहाग्रहे ! विमलभक्तियोगग्रहे ! ॥७॥ महाभयनिवारिणी, सकलशोकसंहारिणी,
भवाम्बुनिधितारिणी, दुरितजातविद्राविणी । अहंमतिविदारिणी, पतितमण्डलोद्धारिणी,
ममान्तरविहारिणी, भवतु सौख्यसञ्चारिणी ॥८॥
।। इति सौख्याप्टकम् ॥७॥ ७-महेश्वरेण परिग्रहः स्वीकारो यस्याः सा, तत्संबुद्धि । महेश्वरस्य परिग्रह. कलत्रमिति वा विग्रहः । परिगृह णाति परिग्रहणं वा परिग्रहः । 'प्रहवृनिश्चि'(पा.सू.३.३.५८) इत्यादिना अप् । 'परिग्रहः कलत्रे च मूलस्वीकारयोरपि' इत्यजय । महेश्वरसद्भिनि इत्यर्थः । स्तुतौ परायणः तत्परः, तस्मिन् अनुग्रहः अभीष्टप्रदानरूप. प्रसादो यस्याः । महास्फुरणं पूर्णाहन्ताचमत्कारसारः स्वसंविदामोदभर. तदेव विग्रह कायो यस्या. । निरययातनाः नरकोत्या तीव्रवेदनाः, तासां निग्रहा निरोधिनी । सुखस्य चतुर्वर्गप्रभवस्य संग्रह समाहरणं यस्याम्, तथाभूता । प्रणतानां दु खभङ्ग दु खोत्सादने आग्रह अभिनिवेशो यस्याः । महान् स चासौ ग्रहश्च महाग्रह महत्संकटं, नवग्रहाद्युत्थो रोगादिजनितो वा मृत्युसमो दुःखसपातः । विनाशितः महाग्रहोऽनया । विमलेन शुद्ध न भक्तियोगेन ग्रहः ग्रहण यस्या । सर्वाणि पदानि संबोधनान्तानि इत्यवधेयम् ।। ___-महाभय आधि-व्याध्युत्त्थ शारीर मानसं च उद्वगकरं साध्वसम्, चौरादिभूतोपद्रवश्च तस्य निवारिणी दूरोत्सारिणी । सकला. संसारोद्भवा. ये शोका. शुच , तेपां सहारिणी सहारकी । भव ससार एव, दुस्तरत्वात् अम्बुनिधिः समुद्र', तस्य तारिणी तारयित्री । दुरितजात दुष्कृतराशिः तस्य विद्राविणी क्षरणकर्ती । अहमतिः 'अहो अहम्' इत्येवरूपो मायिकोऽहन्तावेशः तस्य विदारिणी । पतितानां पथच्युतानाम् यन्मण्डलं समूहः, तस्य उद्घारिणी उद्धारपरायणा | मम अन्तरे हृदये विहारिणी विहरणशीला | सौख्यस्य आत्मानन्दरूपस्य लौकिकस्य च सचारिणी संचारोद्यता भवतु जायताम् । प्रार्थनायां लोट् ।
॥ इति सौख्याष्टकम् ।।