________________
षष्ठ- स्तवः
तव समय सपर्या भावनान्धः शरीरी,
सकलजननि ! नाहं भावभावं जहाति ||७||
श्रुतिरपि परिमातु यां न शक्नोत्यशेषातदितरजनगाथा जल्पनास्तां, सुदूरे
-
३७
इति सांख्यनये संख्याताः । प्राकृते प्रकृतेरयं प्राकृतः, तस्मिन् प्रकृतिसम्बन्धिनि । व्याप्रियन्ते व्याप्त्या श्रवतिष्ठन्ते । पुरुषभावे पुरि शयाने जीवपदाभिलप्ये स्वात्ममहेश्वरे, न खलु व्यापूता भवितुमर्हन्ति । 'असङ्गोऽयं पुरुष: ' (सांख्यसू० १. १५) इति शासनात् । इति एवंरूपेण, अस्मिन् प्रकृतिपुरुषविवेचनापरे दर्शने, स्फुटे स्फीते सत्यपि तव भवत्याः या समयसपर्या समयाचारैः समृद्धा अन्तर्याग-बहिर्यागरूपा वरिवस्या, तस्याः भावनया पुनः पुनचिन्तनरूपया अन्धः आनन्दनिमीलितनयनो भवन्निव । शरीरी पाशत्रयसंदानितो जीवः । हे सकलजननि ! अशेषभुवनमातः ! अहंभावस्य श्रहङ्कारापरपर्यायस्य अहमितिस्फुरणात्मकस्य, भावं अवस्थाम् न जहाति न मुञ्चति । प्रत्युत श्रहंभावभरित एवोल्लसति इति तात्पर्यम् ।
1
८-यां श्रुतिः, श्राम्नायोऽपि, अशेषात् अशेषविशेषभावात्, परिमातु श्रभिधातु न शक्नोति न प्रभवति । तदितराः, ये जनाः श्रस्मदादयः, तेषां गाथा पद्यमयी जल्पना, सुदूरे विप्रकृष्टतरे, आस्तां तिष्ठतु । इति एवंरूपेण विहितविवेक, कृतनिश्चयः 'पाहि पाहि' 'रक्ष रक्ष' इति जल्पन्, श्रतभावेन प्रलपन्, कथमपि येन केनापि रूपेण तव भवत्या, पादयो ध्याने तदेकतानतारूपे चिन्तने, दत्तादरः बहुमान., स्याम् भवेयम् । श्रयमत्र निष्कर्ष - श्रूयत एव हिरण्यगर्भादिगुरुपरपरया न तु केनचित् क्रियत इत्यपौरुषेयी स्वयं प्रमाणभूता वागपि यदभिधातु नालङ्कर्मीरणा, तदा वागन्तरस्य का कथा । तत एव 'अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि' इत्येवमादि प्रवृत्तम् । इह प्रकाशाशेन शिव इति विमर्शाशेन शक्तिरिति व्यवहारस्तु भेदविवक्षायैव प्रववृते । शिवाद्वयदर्शने
'शक्तिश्च शक्तिमद्रपाद् व्यतिरेकं न वाञ्छति । तादात्म्यमनयोर्नित्यं वन्दिदाहिकयोरिव ॥'
इत्यादिनिरूपणात् । तत एव च