________________
दुर्गा-पुष्पाञ्जलिः किमपि निगमरूढं गूढतत्त्वं प्रपन्ना
शिशिरयतु, मदीयं स्वान्तमश्रान्तमेषा ॥५॥ जननि ! यदि भवत्याः शकिरात्मप्रभावं -
व्यपनयति, तदानीं निष्क्रियो लोक एषः। इति परिचिततत्त्वेऽप्यज्ञभावं भजन्त
स्तवसमयविमूढाः संसरन्ति, स्खलन्ति ॥६॥ प्रकृतिगुणविकाराः प्राकृते व्याप्रियन्ते,
न खलु पुरुषभावे दर्शनेऽस्मिन् स्फुटेऽपि ।
समाप्यत इत्यर्थः । इयं पञ्चकृत्यसमष्टिरेव यथाक्रमं श्राभासन-रप्ति-विमर्शनवीजावस्थापन-विलापनतश्च भागमेपूद्धध्यत इति प्रत्यभिज्ञाहृदयादिषु स्पष्टम् । नतयः प्रणतयः, ताभिः ये सुकृतिन. पुण्यवन्तः तेषु । देवेषु ब्रह्माप्रभृतिषु । उच्चकैरित्यकचप्रत्ययान्तमव्ययम् । अत्यर्थ भृशं, अर्पयित्वा तदधीनं विधाय । किमपि चेतोहारि, निगमाः, वेदाः, चतुःषष्टिसंख्याकानि तंत्राणि .च, तेपु रूढं प्रसिद्वं यत् गूढतत्वं अन्तःसारं, तं प्रपन्ना संप्राप्ता सती, एपा विश्वेषामपि मातृरूपेणावस्थिता, अश्रान्तं वाढं यथा स्यात् तथा मदीयं स्वान्तं मानसं, शिशिरयतु शीतलयतु ।
६-हे जननि ! यदि भवत्याः शक्तिः पूर्णाहन्ताचमत्कार', आत्मन स्वस्य प्रभावं सामथ्र्य व्यपनयति निरस्यति, तदानीं एष पुरो दृश्यमानो लोक संसारः निस्क्रिय. निप्पन्दः संपद्यते । इति इल्यं, परिचिततत्त्वे अपि, ज्ञातसारेऽपि वस्तुनि, अशभावं मूढप्रायामवस्थां भजन्त. श्रासेव्यमाना., तव भवत्याः, समयविमूढाः समयाचारपराङ्मुखाः, मुग्धात्मान इति यावत् । संसरन्ति भूयोभूय. ससारिभावं भजन्ते, स्वजन्ति पतनमनुभवन्ति च । द्विमुखा एव नरा. पदे पदे व्यामोहभाजः पतनपर्यवसायिनश्च जायन्त इति भावः । तथा च शान्तिस्तव -
'पापदो दुरितं रोगा समयाचारलानात् ।' इति । -प्रकृतेः मूलप्रकृतेः, ये गुणविकाराःगुणानामुपप्लवभूताः विकृनयः । ते च
नप्रकृतिरयिनिर्मदाद्या प्रनिविलय सप्त । पोखराकम्नु विकारो न प्रफुतिर्न विकृतिः पुरुष ।। ( मांख्यकारिका)