________________
षष्ठ-स्तवः सकलसमीहितसाधनचुञ्चो !
जय-जय-जय, जगदङ्क रकत्रि ! ॥८॥ अयोध्या-पश्चिमप्रन्ति-कल्पितप्रतियातना । यातनाक्षतये भूयादेषामहिषमदिनी ॥६॥
इति महिषमर्दिनी-गीतिः ॥५॥
भासमानं यदडकुरं, बीजस्य प्रथमः परिणामः, तस्य की विधात्री । भवत्या एव सकलः सृष्टिप्रपञ्चः प्रवर्त्यत इति भावः ।
-अयोध्यायाः पश्चिमप्रान्ते, सरयू-तमसयोरन्तरालवर्तिन्यां पण्डितपुर्या, 'शिवदुर्गापीठ' इत्यपराभिधानायां, कल्पिता प्रतिष्ठापिता, प्रतियातना प्रतिमा यस्याः सा । एषा समनन्तरं स्तुता, महिषमर्दिनी महिषं महिषासुराख्यमसुरं मृगाति इति महिष-मर्दिनी, कौशिकी स्वरूपमापन्ना चतुर्भुजा महालक्ष्मीः । महिषासुरस्य वधकथा चण्डीपाठादौ सुप्रसिद्धा । यातना' संसारोद्भवाः तीव्रवेदनाः तासा तये विनाशाय भूयात् ।
॥ इति महिषमर्दिनी-गीति ॥
१-अस्या. संनिवेशप्रमाणं तु भगवता वल्मीकजन्मना इत्थं निर्दिष्टम्
'मनुना मानवेन्द्रण या पुरी निर्मिता स्वयम् । आयता दश च द्वे च योजनानि महापुरी ।। श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा ।।' इति ।
(वाल्मीकिरामा० बालका० ५,सर्ग) २-सांप्रतिक-अयोध्यापुरीसंनिवेशात् पश्चिमायां दिशि अष्टकोशान्तरे 'पण्डितपुरी' इत्याख्यया सुप्रसिद्ध तदिदमाश्रमपदम् । इह कूपारामसंनिकर्ष जगज्जननीपीठसंभूत विन्ध्यपाषाणे निर्मितमेकं मनोहरं लघु शिवमन्दिरं विद्योतते। यत्र जगतां मातापितरौ पार्वतीपरमेश्वरौ विराजत.। अत्र चैकः शिल्पकलाकमनीयः पाषाणोत्कीर्णः शिलालेखोऽपि निर्मातु परिचयमावहन्नेतेन सह संल्लेषित्त आस्ते । इत उत्तराशामुखे क्रोशैकमितान्तरिते भुव. प्रदेशे घर्घरेण संश्लिष्या वासिष्ठी भगवती सरयूः प्रवहति ।