________________
३२
दुर्गा - पुष्पाञ्जलिः
वाणी - माया कामविकाशिनि !
जय-जय सिद्धि- विधानललाम ! ||६||
मध्यं जाम्बूनदवन्धूक
स्फुटितेन्दीवर - भान्यक्कारि ||
उग्रार्तिच्छिदुरे ! दयमाने !
जय-जय जङ्गलमङ्गलकारि ! ॥७॥
अन्तिममञ्जन पाण्डुर धूम्र
द्युतिसंकाश महितकुलहन्त्रि ! |
र्व्यण्टेश्च विकाशिनी स्फारोल्लासिनी, तत्संबोधनम् | सिद्धीनां अष्टविधानां यद् विधानं सफलीकरणं तत्र ललाम प्रधानभूते इत्यर्थः ।
७-मध्यं नवार्णमन्त्रस्य मध्यो भागः । जम्बूनदे भवं जाम्बूनदं सुवर्णम् । तथा च पठ्यते
'तीरमृत् तद्रसं प्राप्य सुखवायुविशोषिता । जाम्बूनदाख्यं भवति सुवर्ण सिद्धभूषणम् ॥'
बन्धूकं जपारुणं पुष्पविशेष । स्फुटितं विकसितं यत् इन्दीवरं नीलकमलं तस्य भां द्युतिं न्यक्करोति तिरस्करोति इति तत्संबुद्धिः । उग्रा उत्कटा सा चासौ श्राति पीडा च तस्याः छिदुरा छेडनकारिणी इत्यर्थ. तत्संवोधनम् | 'आपनार्तिप्रशमनफलाः सम्पदो ह्युत्तमानाम् इति कालिदासः । दयते इति दयमाना कर्तरि शानच् । जंगले वनप्रदेशे मंगलं शुभोदकं करोति इति तत्संबुद्धिः ।
- हे श्रहितकुलहन्त्रि ! न हिताः श्रहिताः शत्रवः नन् तत्पुरुष । तेपां कुल वंशः तस्य हन्त्री विनाशकर्त्री । अन्तिमं चरमो नवार्णमन्त्रभागः । अञ्जनं कृष्णवर्ण, पाण्डरं श्वेतवरण, धूम्र कृष्णलोहितं, तेपां समुदिता या घुतिः दीप्तिः तत्संकाशं तत्समानम् । केनाप्यनिर्वचनीयेन तेजपुञ्ज ेन भासमानामित्यर्थः । सकलानि समस्तानि यानि समीहितानि मनोरथा', तेषां साधने मंपादने, चुख: प्रवणा, 'तेन वित्त' इति चुप् प्रत्ययः । जगद्रूपेण
,