________________
पञ्चम-स्तवः
सृष्ट्यादौ साचिव्यमुपेतम् ,
यत्तस्यापि च सारमुदेति । मातस्तव तव विग्रहघटकं
____ जय-जय दुर्मतिशातनहेति ! ॥५॥ तत्रायत्रिकमैन्दवमारुण
मानलमञ्चति, मञ्ज लधाम ।
५-सृष्ट्यादौ सृष्टि-स्थिति-संहाररूपे त्रिगुणकर्मणि, यत् साचिव्यं सचिवस्य कर्म साहाय्यमित्यर्थः, उपेतं संप्राप्तं, तस्यापि यत् सारं वाग्भवमायाकामानां समष्टिः, उदेति उदयं यावि, हे मातः ! तत् मूर्धाभिषिक्तं बीजकदम्बक, तव विग्रहस्य मंत्ररूपशरीरस्य, घटक योजकम् । दुष्टा विवेकशून्या, या मतिः तस्याः शातनं विनाशनम् 'जायते पत्रशातनम्' इति मीमांसा, तत्र हेतिः शस्त्रभूता । मन्त्रवर्णा हि ध्याननिरूपितस्य ध्येयस्य विग्रहघटका इति परमार्थः । तदित्थं प्रकृते वक्ष्यमाणमाद्यत्रिकम्'वागबीजमादीन्दुसमानदीप्त,
. हीमतेजोधु तिमद् द्वितीयम् । कामं च वैश्वानरतुल्यरूपं,
तृतीयमानन्त्यसुखाय चिन्त्यम् ॥' इत्यादिकमस्मत्परमगुरोः सप्तशतीसर्वस्वतोऽनुसन्धेयम् । तत्र सप्तशतीति तालव्यादिः पाठो मन्त्रगणनाभिप्रायेण, दन्त्यादिस्तु नन्दादिसप्तशक्तीनां चिख्यापयिषयेति तत एवावधार्यम्।
६-तत्र नवार्णमंत्रविद्महे, अयं चण्डिकाम्बायाः नवार्णो मन्त्ररान कलिवि. संस्थुलेऽपि समये आस्तिकसत्तमानां आर्त्तानां कल्पद्रु मायमाणः सकलेऽपि भारतमण्डले श्रद्धास्पदीभवन् परीक्ष्यते । श्राद्य आदौ भवं, त्रिकं त्रयाणां सवः, कन् । ऐन्दवं वाग्भवबीजं, आरुणं मायाबीजं, आनलं कामबीजमित्येतत्त्रितयसमष्टेः, मजुलं मनोहरं च तद्धाम पञ्चेति कर्मधारयः । यतो भवती एव समस्तमपि प्रपञ्चसारभूतं अञ्चति क्रोडीकरोति । अतएव यथाक्रमं तत्तद्बीजस्वरूपमास्थाय वाणी-वाक् , माया-श्री., कामः-इच्छाविशेषः एतेषां समष्टे