________________
दुर्गा-पुष्पाञ्जलिः ब्रह्म-विष्णु-शिव-सृष्टिविधायिनि!
जय-जय लोकालोकमहेशि ! ॥३॥ भक्तशोकशङ्क द्धातिनिपुणे ! , शरणागत-सौहित्य-विधात्रि ! । नैसर्गिककरुणारसस्ते !
___ जय-जय, भूपणभूषितगात्रि ! ॥४॥ सपर्या, तस्याः सुपमां श्रियं, एपि प्रपद्यसे । ब्रह्म-विष्णु-शिवानां सृष्टिः सर्जनं विदधाति इति तत्संबुद्धिः । अतएव लघुस्तवे- 'त्वत्तः केशववासवप्रभृतयोऽप्याविर्भवन्ति ध्रुवम्' इत्याधु पश्लोक्यते । तत एव च शिवसूत्रेषु 'चितिः स्वतत्रा विश्वसिद्धिहेतुः । सा स्वेच्छया स्वभित्तौ विश्वमुन्मीलयति । तन्नानाऽनुरूप ग्राह्यग्राहकभेदात्' इत्यादिना प्रोन्मीलितः स्वातन्त्र्यवादो महान्तं हृदयसंवादमावहति । अस्य च स्फीततरमुपवृहणमपि आगमानुभवयुक्तिवादपुरस्सरं प्रत्यभिज्ञादर्शने महामाहेश्वरैराचार्याभिनवगुप्तपादैः क्रियमाणं हृदयावर्जकमिति विभावनीयम् । 'चितिरूपेण या कृत्स्नमेतद् व्याप्य स्थिता जगत् ' इति चण्डीपाठ. । पश्चस्तव्यामपि
'विरिब्च्याख्या मातः | सृजसि हरिसंज्ञा त्वमवसि त्रिलोकी रुद्राख्या हरसि विदधासीश्वरदशाम् । भवन्ती सादाख्या शिवयसि च पाशौघदलने.
त्वमेवैकानेका भवसि कृतिभेदैगिरिसुते ॥ इति । लोको नाम मुख्यया वृत्त्या प्रकाशस्वभावत्वात् प्रमाता, अलोकश्च तदधीनप्रकाशत्वात् प्रमेयम् । तथा च ग्राह्यग्राहक-उभयकोट्यु पश्लेषरूपो लोकालोक', तस्य महेशी महती स्वामिनी । अथवा लोकालोको नाम अरुणोदयशैलः, तस्य महेशी । राजराजेश्वर्याः सूर्यमण्डलान्तरवर्तिनीत्वमागमप्रथेपु सुप्रसिद्धम् ।
४-भक्तानां शोक. मन्युः स एव पीडाकरत्वात् शंकुः सूच्यग्र. कीलक', तस्य या उद्धतिः उद्धारः वहिरुत्तेपो वा तत्र निपुणे विदग्धे || शरणं आगतस्य चरणशरणमापन्नस्य दुःखसंतप्तस्य यत् सौहित्यं सुहितस्य तृप्तस्य भावः ष्यञ् , तर्पणम् , तस्य विधात्री संघटयित्री, तत्संबुद्धिः । नैसर्गिक. स्वाभाविको य करुणारसः वात्सल्यरसपूरः स. सूत' यस्या सा | करुणारसस्य प्रसवभूरित्यर्थ.। भूषणेन स्वर्णरत्नाद्यलंकारेण भूपितं अलंकृतं गात्रमस्याः तत्संबोधनम् ।