________________
२४
पञ्चम-स्तवः अष्टादश भुजवल्लिसमर्पित
शस्त्रक्षपितमहासुरपालि ! । महिषासुरवधरक्षितलोके ! .
जय-जय, जननि ! जयाम्बुजनालि !॥२॥ एकाप्यङ्गकलामिरनेका
वृतिवरिवस्यासुषमामेषि ।
निर्गुणतः गुणशून्यत्वरूपायाः 'साक्षी चेता केवलो निगुणश्च' इति श्रुतेः। गुणास्तावत् केवलं शरीरधर्माण एव इति न ते चिद्धर्मवत्वमाश्रयन्त इति भावः । एतदुहिश्य मात्स्ये हिमवन्तं प्रति नारदः
'लक्षणं देवकोट्यङ्कः शरीरकाश्रयो गुणाः ।
इयं तु निगुणा देवी नैव लक्षयितु क्षमा ॥' गुणंभावं सत्त्वरजस्तमोरूपगुणत्रयरूपं विग्रहं उपेयुषी उपादधाना तत्संबुद्धिः । विकसन्तौ दी! आयते अपाङ्गो नेत्रप्रान्ते यस्याः । 'जय जयेति महालक्ष्मी लक्ष्यीकृत्य वीप्सा । .....
२-अष्टादशभुजाः एव वल्लयः व्रतत्यः, तासु समर्पितः सम्यगाहितैः, शस्त्र: आयुधैः, क्षपिताः निःशेषीकृता महासुराणां उद्दामरक्षसां पाली पंक्तिरनया। महिषासुरस्य सुप्रसिद्धस्य दुर्दान्तस्य वधात् रक्षितः लोकः संसारोऽनया । अम्बुजस्य पट्चक्ररूपस्य देहस्य नाली नालदण्ड तत्संबुद्धि. | माया-बीज-स्वरूपिणी इति परमार्थः । तत एव पराप्रावेशिकादौ भड्ग्यन्तरेण
'यथा न्यग्रोधबीजस्थ शक्तिरूपो महाद्रं मः।
तथा हृदयवीजस्थं विश्वमेतच्चराचरम् ।।' इत्येवंरूपो राजानक-क्षेमराजाचार्यप्रभृतीनां त्रिकदर्शनविदामुद्घोषः ।। प्रकृतिमयपत्र-विकारमय-केसर-संविन्नालादिविशेषार्थयोजनमपि भागमोक्तदिशा यथायथमवधेयम् । आधारपद्मस्य कामगिरिपीठत्वं कामेश्वरीस्थानत्वश्चापि आगमेष्वाम्नायत इति संक्षेपः । अधिकं तु वरिवस्यारहस्याद्यागमसन्दर्भेभ्य आकलनीयम् ।
३-एका अपि अङ्गकलाभिः अणिमाद्याभिः, अनेका नानाविधशक्तित्रातरूपेण स्फुरन्ती अनेकतामुपयाता, आवृतिः आवरणं, तत्सहिता या वरिवस्या