________________
दुर्गा-पुष्पाञ्जलिः
षष्ठ-स्तवः। जननमरणजन्मत्रासघोरान्धकार
प्रशमनकरणायानाय काचित्प्रदीप्तिः । तरुणतरणिरागं, म्लानिमानं नयन्ती,
विहरतु मम चित्ते चन्द्रखण्डावतंसा ॥१॥ न भवति खलु यावत्कायवैक्लव्यभावो,
न च पतति, कृतान्तरदृष्टि-प्रपातः । ननु हृदय ! समुद्यद्दीनदैन्यावसाद
प्रणयनरसिकां, तां तावदासादयाशु ॥२॥ सरससरसिजातस्फारसौन्दर्यसार
स्फुरदवयवकाण्डोदामलावण्यवापी ।
पष्ठ-स्तवः। १-जननं देहोत्पत्तिः, मरण पञ्चभूतेषु लयः, ताभ्यां जन्म प्रसवो यस्य एवंभूतो यः त्रास. भयं तदेव घोरं दारुण, अन्धकारः तमिस्र, तस्य प्रशमनकरणाय दूरोत्सारणाय, अन्हाय वासराय, काचित् अतिशयोर्जिता, प्रदीप्तिः प्रकृष्टा द्य तिः,। तरुण. नवोदितः स चासौ तरणि सूर्य , तस्य रागं लोहितवर्णत्वं म्लानिमान मलिनत्वं म्लानादिमनिच् । नयन्ती प्रापयन्ती । चन्द्रस्य खण्डः शकलं स अवतंसो भूपण यस्याः सा, चन्द्रखण्डावतंसा, मम चित्ते मनोमन्दिरे, विहरतु विहरताम् । प्रार्थनाया लोट् ।
२-कायस्य शरीरस्य, वैक्लव्यभाव वाक्यप्रयुक्त शक्तिक्षयरूपो व्याकुलीभावः । यावत् न खलु भवति, नोत्पद्यते । कृतान्तस्य यमस्य करा कठोरा सा चासौ दृष्टिश्च तस्याः प्रपातः परिपतनम् न च भवति । नन्विति आमन्त्रणे अव्ययम् । हृदय ! मानस ! समुद्यत् समुद्गच्छत् यत् दीनस्य दुर्गतस्य दैन्यं दारिद्रय तस्य यो अवसाद विरामः, तत्प्रणयने तत्संपादने, रसिकां रसज्ञां, ताम् जगदम्बाम्, तावत् तदवधि, प्राशु यथा स्यात् तथेति क्रियाविशेषणम् । प्रासादय भजस्व ।
३-रसेन सहितं सरसं, ताशं यत् मरमिजातं कमलं, तस्य स्फारेण विपुलेन, सौन्दर्यसारेण चारुत्वोत्कर्पण स्फुरन्तः स्फूर्ति वहन्तः, ये अवयवाः