________________
दुर्गा-पुष्पाञ्जलिः इतस्तत उदित्वरव्रततिनवृक्षावली
लुलद्विहगमण्डलीमधुररावसंसेविताम् । स्खलत्कुसुमसौरभप्रसरपूर्यमाणाश्रमां : ..
.. भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ।।७।।
द्विपत्कुलकृपाणिको, कुटिलकालविध्वंसिकां, , विपद्वनकुठारिकां, त्रिविधदुःखनिर्वासिकाम् । कृपाकुसुमवाटिका, प्रणतभारतीभासिका,
भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् |८||
। ७-इतस्ततः, उदित्वराः उदयोन्मुख्यः, उत्पूर्वादिणः 'इणनशिजिसर्तिभ्यः करप्' (पा० सू० ३.२. १६३) इति करप् ! याः व्रततय. लताप्रतानानि, तासु नद्धा उद्वृत्ता, 'णह बन्धनेत । या वृक्षाणं श्रावली द्रुमपंक्तिः, तस्यां लुलन्ती इत्त' ततो वा विलुठन्ती, विहगानां पक्षिणां या मण्डली समूह', तस्याः मधुररावैः सरसकूजितैः, ससेवितां संस्तुताम् । स्खलन्ति वृन्तश्लथानि पतयालूनि वा यानि कुसुमानि, तेपां सौरभं सुगन्धि',' तस्य -प्रसरेण व्याप्त्या पूर्यमाणः सर्वतो व्याप्रियमाणः, आश्रमो यस्या. सा, ताम् । अन्यत् पूर्ववत् ।
-द्विपनां परिपन्थिना कुलं द्विपत्कुल, सपत्नजनानां वंशः । तस्य कृते कृपारिणकेव पाणिका शुरिका, ताम् । निशितकपाणधारेव अनायासेन रिपकलं उत्सादयति इति भावः । कुटिल. चक्रस्वभावों य. काल , कृतान्त. तस्य विध्वंसिका, विनाशकरी ताम् । स्वयं जगतामन्तक. कालोऽयस्याः अनुचर इव आज्ञावशंवद इत्याशय । विपद', संसारोत्था श्रापद., ता एव दु.खबहुलत्वादिना दुर्गमत्वात् वनानि काननानि, तेपां कृते कुठारिका कुठारवदुच्छेदकी, ताम् । कुठारोनाम 'कुल्हाडी ति लोके प्रसिद्ध काप्टच्छेदकमस्त्रम् । त्रिविध आधिप्रभृतिभिरुद्धतं यद् दु.खं, संतापः तस्य निर्वासिका निर्वासनचतुरा, ताम् । कृपाः अनुकम्पा एव कुसुमानि प्रसूनानि, तेयां वाटिका पुप्पोद्यानमित्यर्थः । प्रणतेपु पादवन्दनपरेषु भारत्याः वाग्देव्याः भासिका स्कृतिप्रदा ताम् । विद्यार्थिभिराराव्यमाना यथाभिलपितां चैदुप्यसम्पद प्रसादीकरोति इत्याशय. !! ,