________________
चतुर्थ-स्तवः
ब्रह्माडाधिकदेहापि गोमतीतीरचङ्क्रमा | जयाय भजतां भूयाच्चण्डिका चण्डविक्रमा ॥६॥
1,MAM
इति चण्डिका - स्तुतिः || ४ ||
"
さ
P
9ܕ
६- ब्रह्माण्डाधिकः देहो यस्याः इति ब्रह्माण्डाधिकदेहा । ब्रह्माण्डभाण्ड-तोऽपि विपुलशरीराभोगा सती, गोमत्या. सुप्रसिद्धायाः सरित', तीरे तटप्रदेशेचक्रम. भूयिष्ठं भ्रमणं, यस्या. सा । या हि विश्वशरीरा न सा तटभ्रमणपरायणा भवितुमर्हति इति विरोधाभासो नामात्र अलकारः । 'आभासत्वे विरोधस्य विरोधाभास इप्यते' इति लक्षणात् । तत्परिहारस्तु - अधिकदा वाञ्छितादयधिकं दातु ईहा इच्छा यस्याः सेति तथाभूता । तत एव च ललितासहस्रनामादिषु -
'सर्वेश्वरो सर्वमयी सर्वमन्त्रस्वरूपिणी' इत्यादि पठ्यमानं संगच्छते । लीलाकैवल्यमिति वा मन्तव्यम् । पर्यन्ते तु 'विश्ववपुश्चिदात्मा' इत्येव पर्यवस्यति । चण्ड अत्युप्र·, विक्रमः पराक्रमो यस्या. तथाभूता, चण्डिका स्वनामधन्या भजता जयाय भूयादिति शम् |
॥ इति चण्डिका - स्तुतिः ॥
१ चण्डी - ( चांदन- कूडा ) इत्याख्यया व्यपदिश्यमानं तदिदं प्राचीनतमं चण्डिकायतन सांप्रतिक- उत्तरप्रदेशगौरवभूतात् लखनऊनगरात् पश्चिमस्या दिशि उपगोमतीतीरं अष्टक्रोशान्तरे विजनप्रायं प्रदेशमध्यास्ते । विद्यानाथनामा कश्चन सिद्धपुरुष पुरा इह तपश्चरितवानिति तत्रत्येभ्यो ब्राह्मणवृद्ध ेभ्यः संशृणुमः । एतत्कुटीरस्य भग्नावशेषश्चाद्याप्यस्मान् स्मारयति तपोभूमेरस्या: महत्त्वम् ।
एतदुत्तरं सुगृहीतनामधेय सरस्वत्यानन्दनाथो महात्मा चिरायात्र तपस्यन् प्रानिमूर्तिकमपि चण्डिकाचत्वरं महिषमर्दिनीस्थापनेन समूर्तिकं संपादितवान् । यद्दर्शनार्थमधुना परः सहस्रा जनता प्रत्यमावास्यं एकत्रिता भवति ।