________________
प्रचण्डयति विक्रम, झटिति खण्डयत्यापदः,
सुमण्डयति वाक्कलां, सदसि दण्डयत्युद्धतान् । करण्उयति रोदसी, गुणसमृद्धिभिर्या हि तां
__ भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥५॥
श्रुताऽभिलपिता, मता, सुकलिता, समभ्यर्चिता,
सुधापृषतवर्षिभिनवनवैर्वचोभिः स्तुता। जयाय खलु कल्पते बहुविधाहता, तामहं
भजामि भयखण्डिका सपदि चण्डिकामम्बिकाम् ॥६॥
५-विक्रम पराक्रम, प्रचण्डयति उल्बणस्वभावतां नयति । 'चडि कोपे'। आपद त्रिविधदुखोद्भवाः विपदः, झटिति सद्य एव खण्डयति, खण्डखण्ड विदधाति । वाक्कलां, वाचामैश्वर्य सुमण्डयति, सम्यग् भूषयति । 'मण्ड भूषणे' चुरादिः। सदसि अधिसभम् , उद्धतान् , दुविनीतान् दण्डयति दण्डप्रयोगैरनुशास्ति। गुणानां रजोगुणभुवां शौर्यादीनां, समृद्धिः अतिशयिता वृद्धिः, ताभिः । रोदसी भुवमन्तरिक्षं च 'द्यावाभूमीतुरोदसी' इत्यमर. 1 करण्डयति करण्डमञ्ज व अनायासेन परिपूर्ण संपादयति । करण्डो नाम वंशादिभिनिर्मित, ताम्बूलपूगादिफलानां निवानपात्रम्, यस्य प्रचुरः प्रचारो भारतभूमौ बहुधा दृष्टचरः । करकोऽप्यत्र प्रयुज्यते । 'ताम्बूलकरकवाहिनी' इत्येवमादिप्रयोगाश्च बाणभट्टोक्तिपु सुलभाः । तदित्यं जगदम्बाचरणचिन्तकस्य गुणसमृद्धिः स्कारीभवन्ती भूलोकादन्तरिक्षलोकान्तं यावत् व्याप्रियत इति भाव. । अन्यत् पूर्ववत् ।
६-श्रुता कर्णकुहरं प्रविष्टा, अभिलषिता सर्वात्मना अभीष्टा, मता हृदयान्ताता, सुकलिता सम्यक् परिशीलिता, समभ्यर्चिता, गन्धादि-पञ्चोपचार. सम्यगुपासिता । सुधायाः पृषताः विन्दव, तान् वर्पन्ति स्रावयन्ति इति सुधापृषतवर्षिणः, तै. । 'पृषन्ति विन्दुपृषताः' इत्यमरः । नवनवैः नूतन-नूतनैः कल्पनाचमत्कृतिरमणीय., वचोभिः वाग्विलासैः स्तुता, सम्यङ् निातो, बहुविधाभिः विविधाभिः सपर्याभगिभिः, श्रादृता हृदयान्त प्रवेशिता, स्वनु जयाय अभ्युदयाय, कल्पते प्रभवति । अन्यत् पूर्ववत् ।