________________
दुर्गा-पुष्पाञ्जलिः नमज्जनमनोरथारचनचारुचिन्तामणिं,
भजामि भयखण्डिका सपदि चण्डिकामम्बिकाम् ॥२॥ निरन्तरसमुल्लसत्कमलकीणपाथोजिनी
प्रतानघनसंपदा कमपि संमदं तन्वतीम् । त्रिकोणसरसीमयीं, परिणति पुरो विभ्रतीं,
भनामि भयखण्डिका सपदि चण्डिकामम्बिकाम् ॥३॥ अनुग्रहरसच्छटामित्र सरःश्रियं यान्तिके
विकासयति, पद्मिनीदलसहस्रसन्दानिताम् । प्रतिक्षणसमुन्मिपत्प्रमदमेदुरां तामहं,
भजामि भयखण्डिका सपदि चण्डिकामम्बिकाम् ॥४॥
सर्वतो घटनं, तत्र चारुः मनोज्ञः, चिन्तामणिरिव चिन्तामणिः, ताम् । चिन्तामात्रेण अभीष्टसंपादिकामित्यर्थः । चरमः पादः पूर्व विवृत., सर्वत्र योजनीय. । ___३-निरन्तरं अश्रान्तं समुल्लसन्ती शोभमाना, या कमलकीणी जलाच्छन्ना, पाथोजिनी पद्मिनी, तस्या' प्रतानेन विस्तारेण घना सान्द्रा संपत संपत्ति , तया । पाथसि जले जायते इति पाथोजम् । जनेर्ड , ततो इनिः । संपदिति किवन्तम् । कमपि लोकोत्तर, संमदं प्रमोद, तन्वती विस्तारयन्तीम् । त्रयः कोणा यस्या सा त्रिकोणा, त्रिकोणाकारेण परिणमन्ती या सरसी सरः, तन्मयों तदाकाराम् । 'कासारः सरसी सर.' इत्यमरः । 'सरसीः परिशीलितुम्' इति नैपधीयचरिते । परिणति अवस्थानं पुर. स्वसंमुखे विभ्रती धारयन्तीम् । अन्यत्पूर्ववत् ।
४-या अन्तिके समीपे, अनुग्रह. अभीष्टसंपादनेच्छारूप' प्रसाद , स एव आनन्दप्रदत्वात् रस , तस्य च्चटामिव परम्परामिव । पद्मिन्या. नलिन्या' यत् दलसहस्रं सहस्रावधीनि पनि, तेन सन्दानं दाम संजातमस्याः सा, ताम् । सरस. तडागस्य, श्री शोभा, ताम् । सरोविच्छित्तिमित्यर्थः । विकासयति उन्मीलयति । प्रतिक्षणं अनुवेल, समुन्मिपत् उदय गच्छत् , यः प्रमदो हर्पः, तेन भेदुरा अनिशयस्निधा, ताम् । 'मेधैर्मेदुरमम्बरमिति' जयदेवः ।