________________
तृतीय-स्तवः देशान्तरेषु चरितानि विशेषयन्ति,
ये शर्मधाम तव नाम निरूपयन्ति ॥६॥ ते देवकालि ! कुकृतानि निकृन्तयन्ति,
संसार-दुःख-निगडानि विभञ्जयन्ति । शान्ति परामधिमनः परिचारयन्ति,
ये त्वत्कथामृतरमान् सततं धयन्ति ॥७॥ ते नूत्नेन्दीवरामे ! भवभयजलधिं शीघूमुल्लंघयन्ति,
प्रध्मातस्वर्णवर्णे ! निखिलसुखकलोल्लासमासादन्ति ।
वैशिष्ट्यमानयन्ति । शर्मणः मङ्गलस्य धाम, लोकातिशायिपदम् तव भवत्याः नाम निरूपयन्ति हृदयारूढं कुर्वन्ति । 'विभावयन्ति' इत्यपि पुस्तकान्तरे पाठः । ___ ७-कुकृतानि, निरयोपभोगफलानि कुत्सितानि कर्माणि, निकृन्तयन्ति कृत्स्नं छिन्दन्ति | संसारदुःखनिगडानि संसारोद्भवानि दु.खान्येव निगडानि, शृङ्खलारूपाणि बन्धनानि, तानि विभञ्जयन्ति त्रोटयन्ति । अधिमनः चित्ताभोगे, सामीप्यार्थेऽव्ययीभावः । परांशान्तिं एकान्तिकम्शमसंतोषसुखम्, परिशीलयन्ति, अनुभवन्ति । त्वत्कथा, भवत्याश्चरितोपवर्णनं एव अमृतरस पीयूषद्रव तान् , सततं अविश्रान्तं यथा स्यात्तथेति क्रियाविशेषणम् , धयन्ति पिबन्ति । 'घेट पाने' कर्तरि लट् । _____-नूत्नेन्दीवराभे ! नूत्नं नवीनं, यदिन्दीवरं नीलकमलं, तद्वदेव आभा दीप्तियस्या , तत्संबोधनम् । महाकालीस्वरूपेणानुग्राहिणी इत्यर्थ. । भवः संसार एव त्रासजनकत्वात् दुस्तरत्वाच्च भयजलधिः, भीतीनां समुद्र, तं शीघ्र द्रागेव, उल्लङ्घयन्ति उत्प्लवन्ते । प्रध्मातस्वर्णवर्णे । प्रध्मातं उत्तप्तं यत् स्वर्ण हेम, तद्वत् वणे. कान्तियस्या. सा, तत्सबुद्धिः, उत्तप्तहेमरुचिरे इत्यर्थः । निखिलसुखकलोल्लासम् , निखिला उच्चावचा या' सुखकला.आनन्दोद्गमा,तासां उल्लास स्फारा समृद्धिः, तम् । श्रासादयन्ति, अनायासेन लभन्ते । महालक्ष्मीस्वरूपेण जगतामनुग्रहकर्ती इत्याशयः । फुल्लन्मल्लीमतल्लीप्रतिभटसुषमे ! फुजन्ती विकसन्ती, या मल्लीमतल्ली प्रशस्ता मल्ली, कुटजवृक्षोद्भवं श्वेतवर्ण मल्लिकापुष्पम्, तस्य प्रतिभटा प्रतिस्पद्धिनी सुषमा शोभा यस्याःसा, तत्संबुद्धि । 'मतल्लिका मर्चिका प्रकाण्डमुद्धतल्लजौ। प्रशस्तवाचकान्यमूनी'त्यमरः । प्राशस्त्यवाचकरूढ़िशब्दत्वात्' 'प्रशंसावचनैश्च