________________
दुर्गा-पुष्पाञ्जलिः फुल्लन्मल्लीमतल्लीप्रतिभटसुपमे ! हर्पमुत्कर्पयन्ति
श्रीमातः! संततं ये तव भजनविधौ चित्तमायोजयन्ति ।।८।। अयोध्याप्रान्तवासिन्याः सुदर्शनकृतस्थितेः। देवकाल्याः स्तोत्रमेतत् पठतां घटतां शिवम् ।।६।।
इति देवकाली-महिमा ॥३॥
(पा० सू० २. १.६६) इति समास. 1 मतल्लिकादयो नियतलिगा अव्युत्पन्नाश्चेति प्राञ्च । अर्वाञ्चस्त्वेपामपि व्युत्पत्तियोगं समर्थयन्ते । हर्षे नैसर्गिकं मन प्रसाद उत्कर्पयन्ति उत्कर्पयुक्तं घटयन्ति । श्रीमातः ! सकलानामपि शक्तिविग्रहाणां समष्टिभूते ! श्रीविद्यारूपिणि । ये तव भवत्याः, भजनविधौ सेवासरणिषु, चित्त प्रायोजयन्ति, तदेकरुपतां नयन्ति । आद्य चरणत्रये महाकाली महालक्ष्मीमहासरस्वतीनामभिमुखीकरणम | चरमे तु सर्वसमष्टिरूपाया राजराजेश्वर्याः इत्यवधेयम् । ___-अयोध्या-प्रान्तवासिन्या , साकेतपरिसरे दक्षिणस्यां दिशि प्रतिमात्मना सुशोभिताया , सुदर्शनेन इक्ष्वाकुवंशोद्भवेन भूभृता कृता विहिता स्थितिः प्रतिमाप्रतिष्ठापनं यस्याः, तस्या' देवकाल्या एतन्नाम्ना सुप्रथिताया स्तोत्रं स्तव, पठतां असकृदावर्तयता, लोकाना शिव श्रेय', घटताम् सङ्गच्छताम् ।
॥ इति देवकाली-महिमा ।।
१अयं अयोध्यानगरीनाथ सुदर्शन., कस्मिन् समये प्रादुरभूत् इत्यैतिहासिकदृशा न किमपि वक्तुं पारयामः । विष्णुमहापुराणादुपलभ्यमानासु राज्ञा वंशपरम्परासु तत् कालकलनासु च नास्योल्लेख. क्वचन दृष्टिमुपगतः । तथाप्ययं इक्ष्वाकुकुलोत्पन्न , अतिचिरतनश्चेति पौराणिकाः । यतो वाल्मीकिरामायणस्य बालकाण्डे रामविवाहावसरे पुरोधसा वसिष्ठेन गोत्र-शाखोच्चारप्रसङ्गे ये पूर्वपुम्पा नाममाहं निर्दिष्टा', तेप्वयं एकोनत्रिंशत्तम इति भारतभ्रमणोपदर्शितान यंशानुक्रमादवगम्यते ।