________________
द्वितीय-स्तवः
विद्या - परिष्कृतिचरणानपि मूकयन्ति,
येऽन्तः सदैव भवतोमधिवासयन्ति ||२||
ते देवकालि ! भुवनानि वशं नयन्ति,
शिष्टिं नृपेन्द्र मुकुटेषु निवेशयन्ति । दुःखान्धकारपटलानि विपाटयन्ति,
ये त्वामुदारकरुणामसृणां श्रयन्ति ||३||
ते देवकालि ! कवितामृतमूर्जयन्ति,
१६
संसत्सु वादनिपुणानपि तर्जयन्ति ।
कामादिकर्कश - रिपुप्रकराञ्जयन्ति,
ये तावकस्मरण सौभगमर्जयन्ति ॥ ४ ॥
रवं, उदन्चयन्ति उन्नमयन्ति । वंशो द्विधा - विद्यया जन्मना च । तदुभयविधस्य यशोवैजयन्त्याः प्रसारणेन उन्नायिकामिति तात्पर्यम् । दिक्षु दिगन्तपरिसरेषु प्रतापस्य तेजोराशेः, पटलीम् प्रभावपर परां 'पटवेष्टने' कलच्, ततो गौरादिर्डीष् । अवतंसयन्ति भूषर्यान्त | विद्या आन्वीक्षिक्यादय. प्राक्तन्यस्तथा भौतिकविज्ञानवन्धुरा नवनवोन्मषन्त्य आधुनिक्यश्च । तासां परिष्कृत्या परिष्करणसंभारेण चरणा. विचाः । 'तेन वित्तश्च नचुपचरणपौ' (पा सू ५. २. २६) इति तृतीयान्तात् वित्त इत्यर्थे चणप् प्रत्यय. । मूकयन्ति वाग्मिनोऽपि मूकवन्मुग्धान् विदधते । मूकं कुर्वन्ति मूकयन्तीत्यर्थे 'तत्करोति तदाचष्ट े ' इति णिच । अन्तः हृदयाकाशे, सदैव प्रमादमवहत्य, अधिवासयन्ति, अन्तरुल्लसितां कलयन्ति ।
३- भुवनानि लोकान् । वशं नयन्ति स्वानुकूलं संपादयन्ति । शिंप्टि आज्ञां, 'शास्' धातोर्भावे क्तिन् । नृपेन्द्रमुकुटेषु, नृपेन्द्राणां चक्रवर्तिनां, मुकुटानि शिरोभूषणानि तेषु निवेशयन्ति विन्यसन्ति । दुःखान्धकारपटलानि दु खमेव त्रासजनकत्वादन्धकार. तम, तस्य पटलानि समूहानि विपाटयन्ति उच्चाटयन्ति । ये, त्वां भवतीं, उदारकरुणामसृणां उदारा सा चासौ करुणा च तया मसृणा स्निग्धा, ताम् । श्रयन्ति सेवन्ते ।
४ - कवितामृतं कवितायाः गद्यपद्यमयस्य वाग्विलासस्य यत् अमृतं, पीयूषं तंत् ऊर्जयन्ति बलातिशययुक्तं घटयन्ति । संसत्सु विद्वद्गोष्ठीयु, वादनिपुणान्