________________
दुर्गा-पुष्पाञ्जलिः
तृतीय-स्तवः। ते देवकालि ! कलिकर्म विनाशयन्ति,
- वन्दास-संहतिषु शर्म विकाशयन्ति । ज्ञानामृतानि हृदये परिवाहयन्ति,
ये तावकीन-पदपङ्कजमर्चयन्ति ॥१॥ ते देवकालि ! कुलकीर्तिमुदञ्चयन्ति,
दिनु प्रतापपटलीमवतंसयन्ति ।
तृतीय-स्तवः । १- 'कालसंग्रसनात् काली' इत्यागमः । आगमान्तरे च
'असितेयं समाख्याता चिदम्बरसती शिवा ।
भक्तानां कामनापूत्यै कालीरूपा बभूव ह ।' इत्येवमाद्यनुश्रूयते । महामहिमशालिन्या अस्याः प्रतिमासन्निवेशः कोसलमण्डले अयोध्यातो नातिदूरे दक्षिणस्यां दिशि 'देवकाली' ति नाम्ना प्रसिद्धिमुपगतः । पुरः स्फुरद्वापीसनाथ मेतन्मन्दिरञ्चाद्यापि पुराभवमात्मनो गौरवमनुस्मारयन् पुण्यां साकेतभुवमलंकरोति ।
हे देवकालि । ते जना., ये त्वयि भक्तिभाज., यत्तदोनित्यसंवन्धात् पूर्वेण परस्य आक्षेप.। कलिकर्म, कलेरेतन्नाम्नो युगस्य, स्वभावानुरूपं प्राणवियोगावधिक तत्तद्द्व्यवसितम् । अथवा कलि म विवादो वाग्युद्ध वा । तथा च माघः
'शठ । कलिरेप महॉस्त्वयाद्य दत्तः ।' इति । तदुत्त्थं कर्म व्यापारजातं, विनाशयन्ति समूलमुन्मूलयन्ति । वन्दारुसंहतिषु वन्दारवो वन्दनशीलाः, 'वदिअभिवादनस्तुत्योः' इत्यतः 'शृवन्द्योरारुः' (पा.सू.३. २. १७३) इति तच्छीलादिष्वारुप्रत्ययः । तेपांसहति समवाय., तासु । शर्म सुखं, विकाशयन्ति यथोत्तरं पल्लवयन्ति । हृदये अन्तःकरणे ज्ञानामृतानि, ज्ञानानि तवप्रसादलब्धा बोधसुधामयूखा एव अमृतानि, पीयूपपूराणि, तानि परिवाहयन्ति जलोच्छ वासवत् परित. समुच्छलयन्ति । ये तावकीनं त्वदीयं, पदपंकजं चरणसरोरुहं, अचर्यन्ति भत्त्या पूजयन्ति ।
२- 'देवकालि' इति सवोधनं यथायथं सर्वत्र संबध्यते । कुलकीर्ति शगौ