________________
द्वितीय-स्तवः
आस्तां मतिर्मम सदा तत्र पादमूले, तां चालयेन चपलं मन एतदम्ब ! |
याचे, पुनः पुनरिदं प्रणिपत्य मात
ज्वालामुखि ! प्रणतवाञ्छित सिद्धिदे ! त्वाम् ॥८॥ इतिहाष्टकम् ||२||
१७
यङ्लुगन्ताल्लट् । ‘यङो वा' इति ईडभावपचे 'रुत्रिकौ च लुकि' (पा सू. ७.४.६१) इति रुगागमः | स्वात्मचिन्तनमेव सुखसंपदं उल्लासयतीति भावः । किंतु यावत् "करुणया वात्सल्यरसपूरेण गुरुतां, गुरोर्भावो गुरुता तां गुरुस्वरूपताम् 'गुरुमूर्तिगुणनिधिर्गोमाता गुहजन्मभू' इति ललितासहस्रनामसु पठ्यते । वहन्त्या धारयन्त्या, भवत्या यावद् एतत् हृदयाम्बुजं हृत्कमलं न उद्घाट्यते नोन्मील्यते तावत् सुखस्य करिणका लव अपि न जायते नोत्पद्यते । करुणार्द्रहृदयया भवत्या गौरवं रूपमास्थाय यावत् श्ररणवं - कार्म - मायीयं च मलमपनुद्य न प्रसाद्यते हृदयागारं तावत् कथमुन्मिषेयुभुक्तिमुक्तिश्रिय इति तत्त्वम् ।
1
5- हे अम्ब । तव भवत्या पादमूले चरणसरोरुहे, मम मति मनीषा सदा सर्वस्मिन् काले, सर्वासु चावस्थासु, आस्तां निश्चला रमताम् । तां भत्त्युपहितां शेमुषीं चपलं मनः, चञ्चलं चेतः न चालयेत्, नान्यथाभावम् नयेत् । हे मातः । ज्वालामुखि ! प्रणतानां वाड्मनः कायैः प्रह्वीभवतां वाञ्छितस्य मनोभिलषितार्थस्य, सिद्धिं ददाति इति तत्संबुद्धिः । पुनः पुन. भूयोभूय. प्रणिपत्य नतमस्तको वृद्धाञ्जलिश्च भवन् इदमेव याचे अभ्यर्थये । अतः परं मुक्तिपदमभिलषतां किमन्यदुद्भ्यर्थनीयं भवेदिति तात्पर्यम् ।
इति ईहाष्टकम् ॥ २ ॥