________________
दुर्गा-पुष्पाञ्जलिः सत्या ज्वलत्तनुसमुद्गतपावकार्चि
र्वालामुखीत्यभिमृशन्ति पुराणमिश्राः । आस्तां, वयं तु भजतां दुरितानि दग्धु,
वालात्मना परिणता भवतीति विद्मः॥॥ यावत् त्वदीयचरणाम्बुजयो ने राग
स्तावत् कुतः सुखकराणि हि दर्शनानि । प्राक् पुण्यपाकचलतः प्रसृते तु तस्मिन् ,
नास्त्येव वस्तु भुवने सुखकृन्न यत् स्यात् ॥६॥ आत्मस्वरूपमिह शर्मसरूपमेव,
वर्ति किन्तु जगदम्ब ! न यावदेतत् । उद्घाटयते करुणया गुरुतां वहन्त्या,
तावत् सुखस्य कणिकापि न जायतेऽत्र ॥७॥ ५- सत्या पार्वत्या 'सती सती योगविसृष्टदेहा' इति कालिदासः । ज्वलन्ती या तनुः शरीर, तया समुद्गता वहि.प्रसृता, पावकार्चि अग्निशिखा, 'ज्वालामुखी' इति पुराणमिश्रा , पौराणिका. सूरय. प्रतिपद्यन्ते । मिश्रशब्दोऽयं गौरवातिशयद्योतक. । 'आर्यमिश्रा.' इतिवत् । अभिमृशन्ति परामृशन्ति । तदेतदास्तां तावत् प्राचां व्याहार. । वयं तु भजताम् आराधयताम् , चरणाहितचेतसामितिभावः । दुरितानि दुप्कृतानि, दग्धु भस्मसात्कतु, भवती अत्रभवती, ज्वालात्मना ज्वालाकारेण, परिणता परिणतिं गता, इति विद्मः जानीमः ।
६- त्वदीयौ चरणावेव अम्बुजे पझे तयो , यावत् राग. अनुरागः न वर्धते, तावत दर्शनानि तव प्रत्यक्षतो वीक्षणानि, कुतः सुखकराणि स्वान्तः सुखोत्पादकानि । प्राक् पूर्वस्मिन् जन्मनि कृतं यत् पुण्यं, तस्य यः पाकः परिणतिः, तस्य वलतः अभिनिवेशत , तस्मिन् सुकृतप्राग्भारे, प्रसृते व्याप्रियमाणे, तद् वस्तु पदार्थः, भुक्ने संसारेऽस्मिन् नास्त्येव नेवास्ते यत् सुखकृत् सौख्याधायक हर्पकरं वा न स्यान्नानुभूयेत ।
७- हे जगदम्ब । जगतां मात. I आत्मस्वरूपं, आत्मनः चैतन्यमहेश्वरस्य स्वल्पमेव शर्मणो नि श्रेयसत्य रूपं पन्थाः वर्वति वरीवृतीति । 'वृतू वर्तने' इत्यतो