________________
द्वितीय-स्तवः अश्रान्तनिर्यदमलोज्वलवारिधारा
सन्धाव्यमान-भवनान्तरजागरूका । मातजलज्ज्वलनशान्त-शिखानुकारा,
रूपच्छटा जयति काचन तावकीना ॥३॥ मन्ये विहारकुतुकेषु शिवानुरूपं,
रूपं न्यरूपि खलु यत्सहसा भवत्या । तत्सूचनार्थमिह शैलवनान्तराले,
ज्वालामुखीत्यभिधया स्फुटमुच्यसेऽद्य ॥४॥ या विधा प्रकारः तया, नानाकारतयेत्यर्थ. । परिभाव्यमाना समन्ततो विभाव्यमाना । सुमुखभावमिति क्रियाविशेषणम्, प्रसादोन्मुखत्वं उरीकरोतु अङ्गीकरोतु । 'कृभ्वस्तियोग'-(पा० सू०५. ४. ५०) इत्यभूततद्भावे च्विः ।
३- अश्रान्तं निरर्गलं, निर्यत् निर्गच्छत्, अमलं पङ्कादिभिरनाविल, अतएव उज्ज्वलं निर्मलं यत् वारि सलिलं, तस्य धाराभिःप्रवाहैः सन्धाव्यमान प्रक्षाल्यमानम् । 'धावु गतिशुद्धयो.' इत्यतः कर्मणि शानच् । यद् भवनं मन्दिरं तदन्तरे तन्मध्ये जागरूका देदीप्यमाना । हे मातः जननि ! ज्वलंश्चासौ ज्वलनश्च ज्वलज्ज्वलन प्रज्वलितोऽनल', तस्य या शान्ता अनुत्कटा, शिखा अर्चि., तां अनुकरोति अनुसरति इति तथाभूता । काचन अनिर्वचनीया तावकीना त्वदीया 'युष्मदस्मदोरन्यतरस्यां खञ्च' (पा. सू. ४. ३.१.) इति खञ् । 'तवकममकावेकवचने (पा. सू ४. ३. ३) इति युष्मदस्तवकादेशः । रूपच्छटा रूपसंपत् जयति सर्वोकर्पण वर्तते।
४- विहरणं विहारः लीलाविलसितं, तदनुपगिषु कुतुकेषु कौतुकेपु, भवत्या त्वया सहसा झटित्येव, शिवस्य पत्युः अनुरूपं योग्यमिति शिवानुरूपम् । अनुरूपमिति योग्यतार्थे ' अव्ययं विभक्ति' (पा. सू. २.१ ६.) इत्यादिना समासः । त्रिलोचनत्वरूपं रूपं न्यरूपि निरधारि । मन्ये शङ्क, तत्सूचनार्थ तस्य सर्वसमदं प्रकटीकरणाय, शैलं च वनंचइति शैलवने तयोरन्तरालं तस्मिन् । अद्रिकाननयोमध्ये 'ज्वालामुखी' इत्यभिधया अभिधानेन स्फुटं स्पष्टं यथास्यात्तथेति क्रियाविशेषणम् । उच्यसे जनैरभिधीयसे । वचः कर्मणि लट् ।