________________
दुर्गा-पुष्पाञ्जलिः
द्वितीय-स्तवः। जालन्धरावनिवनीनवनीरदाभ
प्रोत्तालशैलवलयाकलिताधिवासाम् । आशातिशायिफलकल्पनकल्पवल्ली
ज्वालामुखीमभिमुखीभवनाय वन्दे॥१॥ ज्येष्ठा क्वचित् , क्वचिदुदारकला कनिष्ठा,
मध्या क्वचित्, क्वचिदनुद्भवभावभव्या । एकाप्यनेकविधया, परिभाव्यमाना __ज्वालामुखी सुमुखभावमुरीकरोतु ॥ २॥
द्वितीय-स्तवः । १-जालन्धरः त्रिगत देश इति हेमचन्द्रः । अत्र भगवती विश्वमुखी भूत्वा विराजते । तथा च देवीभागवते - 'जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते ।'
(दे० भा० ७.३.७६) जालन्धरावनौ जालन्धरेति नामके शक्तिपीठे, या वनी अरण्य, तत्र नवो नूतनः यो नीरदो जलधर, तद्वत् आभा दीप्तिर्यस्य, एतादृशे नूतनमेघसन्निभे, प्रोत्ताले अत्युन्नते, शैलवलये पर्वतमण्डले, कलित. गृहीत., अधिवासो निवासः, यया सा ताम् । श्राशातिशायिफलकल्पनकल्पवल्ली, आशां मनोवाञ्छितमतिशेते इत्याशातिशायि तादृश यत् फलकल्पनं भक्तजनेभ्य समोहितप्रदानं तत्र कल्पवल्ली कल्पलतेव विश्रुतगौरवाम् । ज्वालामुखी ज्वालैव मुखं यस्या. सा, ताम् । अजस्र प्रज्वलिताभि ालाभिरेव पूजादिकं गृह्णाति देवीत्यतोऽस्यास्तथात्वम् । अभिमुखीभवनाय सामुख्यसंपादनाय वन्दे प्रणतोऽस्मि । ___२- कचित् ज्येष्ठा वृद्धिंगतचालाकारा, कचित् उदारा सरला कला अर्चिः यस्या सा, कनिष्ठा लघुरूपा, मध्या अनुभयरूपा । नास्ति उद्भवो उत्पत्ति यस्य स अनुद्भव. प्राकृतिक', तादृशो यो भाव. श्रद्धाभर , तेन भव्या रमणीया । अनादिकालादसौ बालात्मना परिकुरन्ती विराजत इत्यस्यां कश्चन भावोदक समुन्मिपति भक्तजनत्येत्यर्थः । एका केवला, अपि अनेका