________________
प्रथम-स्तवः नास्ति कृपानिधिरम्ब ! त्वत्तो मत्तो मत्ततमो न शिवे ! जय जालन्धरपीठविलासिनि ! दुःखविनाशिनि भलिवश !॥ ८ ॥
वज्रालङ्करणायाः वज्रातटिनीविहारशीलायाः । वज्र श्याः स्तवमेतं पठतां सङ्गच्छतां श्रेयः ॥ ६ ॥
इति जगदम्बा-जयवादः ॥ १॥ सपद्यतां तं कुरुष्वेति विग्रहः । प्रार्थनायां लोट् । वृद्धि प्रापयेत्यर्थः । शत्रु प्रतिद्वन्द्विनं मर्दय, उपमर्दित संपादय । शक्तिम् अन्तःस्फुरणात्मिकां वर्धय, बलोजितां विधेहि । सरले सरलस्वभावे, भक्तिं तव चरणयोरासक्तिं, सान्द्रीकुरु घनीभूतां सपादय । हे अम्ब । त्वत्त. भवत्याः विशिष्ट. कृपानिधिः करुणासमुद्र. नान्य. कश्चन अस्ति । हे शिवे | कल्याणिनि ! शिवं करोति इति शिवशब्दात् 'तत्करोतितदाचष्टे' इति एयन्तात् पचाद्यचि, टाप् । शेते अस्यां सर्वमिति अथवा शिवा. शोभनाः गुणा अस्या सन्तीति, अर्शआदित्वादच् । मत्त. मदपेक्षया, मत्ततम. अतिशयेन मत्त , प्रमादयुक्त नान्य. कोऽपि क्वचिदिति । शेप सुगमम् ।
६- वज्रालङ्करणायाः वज्र पविः अलङ्करणं विभूषणं यस्याः तस्याः । वज्रातटिनी आगमप्रसिद्धा सरित् । तस्यां विहारशीलायाः स्वरं विहरन्त्या. । वज्रस्य ईशी वन शी, षष्ठीतिथिनित्या जालन्धरपीठाधिष्ठात्री तस्या., इन्द्रवज्रप्राणप्रदायाः । अनयैव तपस्यत इन्द्राय वज्रोऽपि प्रसादीकृत इत्यादिकथा ब्रह्माण्डपुराणतो द्रष्टव्या । एत मदुक्तं स्तवं स्तोत्रं पठतां अर्थानुसन्धानेन सह सश्रद्धं भावयतां जनानां श्रेय. मङ्गलं सङ्गच्छतां संघटताम् ।
इति जगदम्बा-जयवादः । १-श्रीपुरस्य द्वादशः प्राकारो वज्रमणिमयः, तत्र एकादशस्य मध्ये वज्राख्यानदी, तत्स्वामिनी । तथा च तत्रभवतो दुर्वाससः ललितास्तवरत्ने
'तत्र सदा प्रवहन्ती तटिनी वज्राभिधा चिरं जीयात् । चटुलोमि-झाटनृत्यकलहसी-कुल-कलक्वणितपुष्टा ।। रोधसि तस्या रुचिरे व शी जयति वज्रभूषाढ्या. । वज्रप्रदानतोषितवनिमुखत्रिदशविनुतचारित्रा ।। , माटो निकुञ्ज कान्तारं वा । अन्यत्सुगमम् ।