________________
१२
दुर्गा-पुष्पाञ्जलिः सिन्दूरद्रवचुम्बितभाले ! सेवितहाले ! प्रेमभरे ! मातश्चिन्तामणिभवनान्ते ! निर्भरकान्ते ! विततततम् । सोत्कं गायसि किन्नरदारैः, साकमुदारैः पतिचरितम् जय जालन्धरपीठविलासिनि ! दुःखविनाशिनि ! भक्तिवशे!॥७॥ क्लेशं भञ्जय, रञ्जय चित्त, वित्त स्फारीकुरु वरदे !
शत्रु मर्दय, वर्धय शक्ति, भक्ति सान्द्रीकुरु सरले ! 'अधीनो निन्न आयत्त.' इत्यमर.। सुखस्य ऐहिकस्य आमुष्मिकस्य च कलिका कुडमलभूता | त्वत्त एव समस्त. सुखराशिराविर्भवतीत्यर्थः । शेपं सुगमम् ।
७ - सिन्दूरस्य यो द्रवः रस तेन चुम्बितम् आश्लिष्ट भालं ललाटं यस्याः सा,तत्संबुद्धिः । सेविता स्वात्मनि योजिता, हाला पासवद्रव्यमनया । प्रेम्णः अनुरागस्य भर' आविक्यमस्ति अस्यामिति तत्संबुद्धि । रागातिशय विभ्रती इति भाव । चिन्तामणिभवनं द्वादशारं कमलं तदन्ते तन्मध्ये । सर्वेषां चिन्तितार्थप्रदानां मन्त्राणां निर्माणमण्डपं चिन्तामणिगृहमाख्यायत इति गौडपादीये सूत्रभाष्ये । तन्त्रान्तरेऽपि
'तत्र चिन्तामणिमयं देव्या मन्दिरमुत्तमम् । शिवात्मके महामञ्चे महेशानोपवर्हणे ।। अतिरम्यतले तत्र कशिपुश्च सदाशिव. । भृतकाश्च चतुष्पादा महेन्द्रश्च पतद्ग्रहः ।।
तत्रास्ते परमेशानी महात्रिपुरसुन्दरी ।' इति । निर्भर' अतिमात्रमाश्रित कान्तो अस्याम् । अथवा नि शेपेण भरः अतिशयः कान्ते यस्या सेति । विततं विशेषेण व्याप्तं ततं वीणादिवाद्य यस्मिन् कर्मणि तत् यथा स्यात्तथेति-गायनक्रियां विशिनष्टि । उदार दक्षिणैः, किन्नरदार. किन्नराणां देवयोनिविशेपाणां दारा. पत्न्यः, तैः साकं सह । सह उत्केन वर्तमान सोत्कं सोत्कण्ठं । 'उत्क उन्मना' (पा० सू० ५।२।८०) इति उद्गतमनस्कवृत्तेरुच्छद्वात् स्वार्थ कन् । उद्गतं मनः अस्येति उत्क , तदस्ति यस्मिन्निति वा । पत्युमहेशानस्य चरितं चरित्रम् । अन्यत् स्पष्टम् ।
८-क्लेश आधि-व्याध्युत्यं शारीरं मानसं च कष्टं, तत् मजय भिन्धि । चित्तं मानसं रस्जय रञ्जितं कुरु । वित्तं लोकोद्भवं वैभवं स्फारीकुरु । अस्फारः स्फारः